SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः ।। स्वाध्यायभूमि चाशुद्धामात्मानं चाशुचिं द्विजः ॥ १२७॥ नित्यग्रहणात्पूर्वत्रानध्यायानां विकल्पः । तत्रापि येषां नित्यत्वमात्रं तत्प्रदर्शितमेव । यत्र नित्यग्रहणमर्थवादो वा यथा “ अमावास्या गुरुं हन्तीति " । भूमेश्वाशुद्धिरस्थिभगलिङ्गादिकामध्यादिसंसर्गः । आत्मनस्तु पञ्चमे वक्ष्यते । यद्यप्यध्ययनविधि- ५ प्रकरण एतावनध्यायौ तथापि नैत्यके भवतः । न ह्यशुचिरधिक्रियते तथा च ब्राह्मणं " तस्य वा एतस्य यज्ञस्य द्वावनध्यायौ यदात्माऽऽशुचिर्यदेश" इति । ब्रह्मयज्ञश्च नित्यो जपः॥ १२७ ॥ अमावास्यामष्टमी च पौर्णमासीं चतुर्दशीम् ॥ ब्रह्मचारी भवेन्नित्यमप्यतौ स्नातको द्विजः ॥ १२८ ॥ १० ब्रह्मचारी भवेद्ब्रह्मचारिधर्मो मैथुननिवृत्तिरतिदिश्यते न पुनर्भिक्षाचरणादिः । अप्यृताविति संबन्धात्तदेव प्रथमं हृदयमागच्छति । अन्ये तु मधुमांसनिवृत्तिमपीच्छत्येतेष्वहःसु । तत्र स्मृत्यन्तरमुदाहार्यम् “षष्ठयष्टमीममावास्यामुभयत्र चतुर्दशीम् । वर्जयेत्पौर्णमासी च तैले मांसे भगे क्षुरे॥" अन्ये स्वाहुब्रह्मचारीति विशिष्टाश्रमिणो नामधेयमेतत् । अत आश्रमान्तरवर्तिनि १५ गृहस्थादौ प्रयुज्यमाने वेदग्रहणार्थधर्मलक्षणयाऽतिदेशार्थो भवति । ब्रह्मचारी भवेत् परशब्दो हि परत्र प्रयुज्यमानो वत्यर्थं गमयति । सर्वेषु ब्रह्माचारिधर्मेषु प्राप्तेष्वग्नीन्धनभैक्ष्यचरणादयः । 'आ समावर्तनात्कुर्यादिति'वचनात् । 'गृहस्थः शेषभुगिति । च प्रत्यक्षे विनिवर्तन्ते । केवलं मधुमांसमैथुनप्रतिषेधमात्रमतिदिश्यत इति । प्रसिद्धस्तु ब्रह्मचारिशब्दो मैथुननिवृत्तावेवेति यत्किंचिदेतत् ॥ १२८ ॥ न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ॥ न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ १२९ ॥ नित्यस्य स्नानस्य भुक्तवतः प्राप्त्यभावान्नायं प्रतिषेधः । स्मृत्यन्तरे हि " स्नानं महायज्ञाः शेषभोजनम्" इत्यर्थक्रमः श्रुतः । न चण्डालस्पर्शनादिनिमित्तकस्यापि "नाशुचि क्षणमपि तिष्ठेदिति'विरोधात् । अत इच्छालक्षणस्य धर्माद्यपनोदहेतोरयं प्रतिषेधः । आतुरो २५ व्याधिगृहीतः तस्य सर्वप्रकारस्नानप्रतिषेधोऽशुचित्वेऽपि " सर्वत एवात्मानं गोपायेदिति"। का तर्हि तस्य शुद्धिर्मार्जनं मन्त्रवत्प्रोक्षणं वस्त्रत्याग एवमादि कर्तव्यम् । महानिशा __ २० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy