________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ॥ सामवेदः स्मृतः पिव्यस्तस्मात्तस्याशुचिनिः ॥ १२४ ॥
सामगीतध्वनावग्यजुषस्यानध्याय उक्तः । तत्रायमर्थवादः । देवा देवता अस्य देवदैवत्यो देवतास्तुतिपर इत्यर्थः । ऋचः प्रायेण स्तुतिप्रधानाः । अत उक्तं ५ " देवदेवत्य " इति ।
मनुष्याणां कर्मप्रधानत्वाद्यजुर्वेदे च कर्मणां बाहुल्योपदेशादेतेन साम्येन यजुर्वेदो मानुष इत्युच्यते । मानुषशब्दो मनुष्यजातिवचनः । अभेदाध्यासाद्यजुर्वेदो मानुष इत्युक्तम् ।
पित्र्यः पितृभ्यो हितः । पितरो वा देवता अस्येति यथाकथंचित्पितृशब्दसंबन्धेन १० श्रूयते । त्रयो लोकास्तेषां त्रय एवाधिष्ठातारः । दिवो देवता भूमर्मनुष्या अन्त
रिक्षस्य पितर एवं त्रयो वेदाः । द्वयोर्देवमनुष्यसंबन्धोक्तत्वात्पारिशेष्यात्पित्र्यः सामवेदः । तस्याशुचिर्ध्वनिः । नात्र तदीयस्य ध्वनेरशुचित्वं परमार्थतो विज्ञेयम् । किंतर्हि यथाऽशुचिसंनिधाने नाध्येतव्यम् एवं तत्सन्निधान इति सामान्यमशुचित्वालम्बनम् ।
अयं चाध्ययनविधौ प्रकरणात्साम्नि गीयमानऋग्यजुषः ( ? षोः ) प्रतिषेधो न १५ यज्ञप्रयोगे ॥ १२ ॥
एतद्विदन्तो विद्वांसस्त्रयीनिष्कर्षमन्वहम् ॥ क्रमतः पूर्वमभ्यस्य पश्चाद्वेदमधीयते ॥ १२५ ॥
एतत्रिलोक्याधिष्ठातृसंबन्धित्वं — ऋग्वेदो देवदैवत्य ' इत्यादि विदन्तो विद्वांसः प्राज्ञास्त्रय्या निष्कर्ष सारभूतं पूर्वमभ्यस्य प्रणवव्याहृतिसावित्राख्यमुक्तेन क्रमेण पश्चा२० द्वेदमधीयते पठन्ति । तेन त्रयो लोकास्तिस्रो देवता एतत्रिकाध्ययनेन परिगृहीता भवन्ति ।
उक्तोऽप्ययमर्थो द्वितीयेऽध्याये पुनरुच्यते । यथाऽनध्यायेषु पठ्यते तथा त्रयी निष्कर्षे प्रागनधीते ॥ १२५ ॥
पशुमण्डूकमाजारश्वसर्पनकुलाखुभिः ॥
अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ १२६ ॥ २५ अन्तरागमनेऽध्याप्याध्यापकयोर्मध्येनाधीयानानां वा । अहर्निशमहोरात्रम् ।
गौतमे तु " व्यहमुपवासो विप्रवासश्चोक्तः "। श्मशानाध्ययने च एतदेव । अत्र विकल्पो विज्ञेयः ॥ १२६
For Private And Personal Use Only