SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् ॥ न नावं न खरं नोष्ट्र नेरिणस्थो न यानगः ॥ १२० ॥ इरिणं बहिर्गामं जलतृणवर्जितो देश ऊषरांपरपर्यायः । यानं गन्त्रीशकटशिबिकादि तेन गच्छतो निषेधः ॥ १२० ॥ न विवादे न कलहे न सेनायां न सङ्गरे ॥ न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ १२१ ॥ विवादः क्रोशपूर्वको व्याक्रोशः । कलहो दण्डादिनेतरेतरताडनम् । सेना हस्त्यश्वरथपदातिः । सङ्गरः सङ्ग्रामः असङ्गरेऽपि सेनास्थस्य निषेधः । भुक्तमात्रं " यावदार्द्रपाणिरिति " स्मृत्यन्तरम् । अजीर्ण पूर्वेयुभुक्तमपरेधुरपरिणतमुच्यते । वमनं प्रसिद्धम् । शुक्तके उद्गारेऽसत्यप्यजीणे तदहरपरेछुर्वा ॥ १२१ ॥ अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ॥ रुधिरे च सुते गात्राच्छस्त्रेण च परिक्षते ॥ १२२ ॥ अतिथिग्रहणं शिष्टोपलक्षणार्थम् । अनित्यागमनः शिष्टश्चातिथिस्तस्मिन्गृह आगतेऽसावध्येतव्यमधीमह इति नानुज्ञातोऽधीयीत । तथा च स्मृत्यन्तरं "शिष्टे च गृहमागत" इति । मारुते वायौ वाति वेगेन । ननु कर्णश्रव । इत्याद्युक्तमेव । सत्यम् । ततोऽधिकतरे ततो वर्षाभ्योऽन्यत्र वाति प्रतिषेधः । अथ वाति परिशुष्यति वातस्य शोषणार्थत्वात् । मारुतग्रहणं च वातमात्रोपलक्षणार्थम् । अध्ययनश्रमेण धातषु क्षीयमाणेष्वप्यनध्यायः । मारुते वर्धमाने विधायिन्यध्येतरीति भिन्नसंबन्धे व्यधिकरणसप्तम्यौ । रुधिरे जलौकादिना परिस्रुतेऽथवा शस्त्रेण च परिक्षते शरीरे रुधिरे स्रुते । गात्रादिवाक्येनैकवाक्यता ॥ १२२ ॥ २० सामध्वनाऋग्यजुषी नाधीयीत कदाचन ॥ वेदस्याधीत्य वाऽप्यन्तमारण्यकमीत्य च ॥ १२३ ॥ ऋचो यजूषि सामध्वनौ श्रूयमाणे नाधीयीत । ऋग्वेदयजुर्वेदब्राह्मणयोरप्रतिषेधः । पञ्चविंशे च श्रूयमाणऋग्यजुषयोरप्ययं प्रतिषेधः । वेदस्यान्तो यत्र वेदः समाप्तिमुपैति मन्त्रान्तो ब्राह्मणान्तश्च । आरण्यको नाम वेदैकदेशस्तमधीत्यान्यो ग्रन्थो २५ नाध्येतव्यः ॥ १२३ ॥ १फ-ऊषरपर्यायः । २ फ-पादातम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy