SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ३४१ एक उद्दिश्यते यस्मिंस्तदेकोद्दिष्टं नवश्राद्धम् । तत्र निकेतनं निमन्त्रणं प्रतिगृह्य अङ्गीकृत्य व्यहमनध्याय आमन्त्रणात्प्रभृति । एवं राजा चन्द्रमास्तस्य सूतकं राहुं प्रत्यमृतस्रवणम् । चशब्दात्सूर्यस्य च । अथवा जनपदेश्वरस्य राज्ञः सूतकं पुत्रजन्मोत्सवः । राहोः सृतकं चन्द्रसूर्ययोरुपरागः । ग्रहणमिति प्रसिद्धम् ॥ ११० ॥ यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ॥ विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ १११ ॥ एकमनुदिश्य आमश्राद्धं तस्य यावच्छ्राद्धकृतो गन्धलेपौ तिष्ठतस्तावदनध्यायः । पूर्वस्माद्विधौ विध्यन्तरम् । द्वितीयस्मिन्नहनि कृतस्नानोऽपनीततद्गन्धोऽध्ययनार्हः। उपलक्षणं चैतदसतोरपि गन्धलेपयोर्यावद्भक्तमन्नं न जीर्ण तावन्नाधीयीत । विदुष इति तस्यैव श्राद्धभोजनाधिकारमनुवदति ॥ १११ ॥ शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ॥ नाधीयीतामिषं जग्ध्वा मूतकान्नाद्यमेव च ॥ ११२ ॥ प्रसारितपादः पादारोपितपादो वा खटासनादौ वा संहतपादः । अवसक्थिका वस्त्रादिना जान्वोर्मध्यस्य च बन्धः । आमिषं मांसम् । सूतकग्रहणं शावाशौचादेरपि प्रदर्शनार्थम् ॥ ११२॥ नीहारे बाणशब्दे च सन्ध्ययोरेव चोभयोः॥ अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ॥ ११३ ॥ नीहारो दिमोहो धूमिकेत्यनान्तरम् । बाप्परजोवृता इव येन दिशः क्रियन्ते । बाणशब्दः शरनिर्घोषः । दन्त्योष्ठयमन्ये पठन्ति व्याचक्षते च वीणावाण इति महाव्रते हि प्रयोगो दृश्यते । शततन्त्रीको भवति वीणावितन्त्रीति च । चतुर्दश्यां २० उभयोरपि पक्षयोः । अष्टकाश्च सर्वा अष्टम्यः । स्मृत्यन्तरसमाचाराभ्याम् । अन्ये त्वष्ट. मीष्वित्येवं पठन्ति ॥ ११३ ॥ अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ॥ ब्रह्माष्टकापौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ॥ ११४ ॥ पूर्वस्यार्थवादो नित्यार्थः । तेन यत्र नित्यत्वज्ञापकं न किंचित्स विकल्पतेऽनध्यायः। २५ वयति च " द्वावेव वर्जयेत् नित्यमिति "। ताः परिवर्जयेत् अध्ययनक्रियातः॥११३॥ पांसुवर्षे दिशा दाहे गोमायुविरुते तथा ॥ श्वखरोष्ट्रे च रुवति पतौ च न पठेद्विजः ॥ ११५ ॥ १ अग्रे १२७ श्लोकः। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy