________________
Shri Mahavir Jain Aradhana Kendra
३४०
१०
www. kobatirth.org
२५
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थ:
पूर्वोक्त आकालिकोऽनध्यायः । प्रसिद्धतरं ज्योतिष्टोमादि । तदपेक्षयोक्तं यथा दिवा तथा रात्रावपि । शेषमिति पाठः । शेषं हूयमानमहरनध्यायहेतुर्भवतीति । अथ कस्मान्नैवमुक्तं शेषं त्वाकालिकं स्मृतमिति । विचित्रा श्लोकानां कृतिर्मनोः ॥ १०६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नित्यानध्याय एव स्याद्रामेषु नगरेषु च ॥ धर्मनैपुण्यकामानां पूतिगन्धे च सर्वशः ।। १०७ ।।
निपुणं धर्मे ये कामयन्ते ते ग्रामनगरयोर्नाधीयीरन् । धर्मशब्दश्च स्वर्गादौ धर्मफले वर्तते । यदि वाऽधर्मेणाननुवेधो धर्मस्य नैपुण्यं तेन सुपरिपूर्णो विध्यर्थोऽनुष्ठितो भवति । अतश्चाशक्तस्यानुज्ञानं भवति । पूतिगन्धः कुत्सितगन्धस्तस्मिन्नासिकापथं गच्छत्यनध्यायः । सर्वशः सर्वस्मिन् शवगन्धेऽपि ॥ १०७ ॥
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ॥
अनध्यायो रुद्यमाने समवाये जनस्य च ॥ १०८ ॥
अन्तर्गतः शवो यस्मिन्ग्राममध्ये स्थितो यावन्न निर्हृतः । वृषलस्य नात्र शूद्रो वृषलस्तस्य प्रागेव निषिद्धत्वात् । न शूद्रजनसंनिधाविति । किंर्हि तत्प्रायिकेणाधर्मेणाधार्मिकत्वं लक्ष्यते । तेन यः पापाचारस्तत्संनिधानाच्च तेन निषेधः । रुद्यमाने रुदनशब्दे सति । भावमात्रे रुद्यमानशब्दः । समवायो जनस्य । यत्र बहवो १५ जनाः कार्यार्थमेकत्र संघटिता भवन्ति तादृशे देशे नाध्येयम् । अथवा जनस्य समवाये रुद्यमाने रुदतीत्यर्थः । बहुषु रुदत्सु प्रतिषेधः । छान्दसं कर्तर्यात्मनेपदम् ॥ १०८ ॥ उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ॥
उच्छिष्टः श्राद्धभुक्चैव मनसाऽपि न चिन्तयेत् ॥ १०९॥
चतुर्मुहूर्तोऽर्धरात्रः सैव महानिशा प्रथमादर्धरात्राी मुहूर्तावुत्तराद्वौ । उदके नदी२० तडागादिस्थः । अन्तर्जले जपस्त्वनध्यायरूपत्वादघमर्षणादिर्न निषिध्यते । उदय इत्यन्ये पठन्ति । प्रथमोदयकाले सूर्यस्यानध्यायः । उच्छिष्टो भुजिसंबन्धेनाकृताचमनो यावत् । कृतमूत्रपुरीषोऽपि प्रागाचमनादुच्छिष्ट उच्यत एव । आचमनार्हप्रत्ययमात्रवचन इत्यन्ये । तेन कृतनिष्ठीवनादिरपि गृह्यते । मनसाऽपि नान्यत्राध्याये मनसा चिन्तनमभ्यनुज्ञायते । किं तर्हि दोषगौरवार्थमेतेषां निमित्तानाम् ॥ १०९ ॥
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ||
त्र्यहं न कीर्तयेद्र राज्ञो राहोश्च सूतके ॥ ११० ॥
१ र-ण-अधर्मेण नानुवेधो । २ ड - सम्भवन्ति ।
For Private And Personal Use Only