SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३८ मेधातिथिभाष्यसमलंकृता। [चतुर्थः नाविस्पष्टमधीयीत न शुद्गजनसन्निधौ ॥ न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ९९ ॥ यत्र वर्णस्वराभिव्यक्तिः स्फुटा न भवति तदविस्पष्टम् । तच्च द्रुतायां वृत्तौ प्रायेण भवति । निशान्ते पश्चिमरात्रिभागे । सुप्तोत्थितो यदाऽधीयीत पुनः श्राम्येत्तदा न ५ शयीत । " न निशान्ते परिश्रान्तो ब्रह्माधीत्य शयीत तु" एवं युक्तः पाठः॥१९॥ यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ॥ ब्रह्मच्छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥ १० ॥ छन्दांसि गायत्र्यादीन्यभिप्रेतानि तैः कृतं युक्तं ब्रह्ममि । अनेकार्थत्वाकरोतेरयमत्रार्थो व्याख्यायते । यथा गोमयान्कुर्विति संहारे पृष्ठं कुर्वित्युन्मर्दने एवमत्र युजेरर्थे वर्तते । ब्रह्म च छन्दश्च ब्रह्मच्छन्दसी ताभ्यां युक्तं ब्रह्मछन्दस्कृतम् । यजूंषि गायत्र्यादियुक्ताश्च मन्त्राः । एकस्मिन्नेवावस्थानके पठन्ति । न यथा बाढच्ये छान्दोग्ये च विभागेनैकस्मिन्ग्रन्थे अन्यत्र ब्राह्मणम् । एवंप्रकारभेदावेदानामेवं युक्तमिति पूर्वे व्याख्यातवन्तः । यथोदितेन पूर्वो विधिरनापापसंव्हियते । आपदि अध्यापकस्या संनिधानं बहुदेवताविभागमपेक्षमाणस्य तत्रागुणवतः सह विस्मृत्य स्यात् । तस्मान्नापद्ययं १५ विभागो नादरणीयः ॥ १०० ॥ इमानित्यमनध्यायानधीयानो विवर्जयेत् ॥ अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ १०१॥ इमान्वक्ष्यमाणाननध्यानधीयानो विवर्जयेत् । अध्यापनं च कुर्वाणः । अध्यापनग्रहणमनधीयतो ग्रहणार्थमभ्यासाथै च । नित्यम् नोत्सर्गादेव प्रभृति । २० किंतर्धपञ्चमेष्वपि मासेषूपाकर्मणः प्रभृति । शिष्याणाम् अनुवादः ॥१०१॥ कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ॥ एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ १०२ ॥ अनिलो वायुः । वेगेन वाति वायौ वाय्वन्तरसंघर्षाध्वनिः श्रूयते यत्र स कर्णश्रवो वायुः । कर्णाभ्या श्रूयते यः स कर्णश्रवः । साधनंकृतेति समासः । २५ अवस्थाविशेषोपलक्षणार्थ कर्णग्रहणम् । श्रूयते कर्णाम्यामेव । तेन यदैवं वायुशब्दः श्रूयते तदा नाध्येतव्यम् । पांसून्समूहति पांसून्समाहरति पांसुसमूहनः । पांसुधूलिः । १र-ण-वाक्छंदोग्येच । २ र-भेदोद्वेदनाम् । ३ र-विभाग्यं त्यपेक्षमाणस्य ४ ड-यदविस्मृत्य । ५र-न त्ययं विभागो। ६ अ-क-ड-क्ष-इमन्नित्यम् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy