________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भध्यायः] मनुस्मृतिः।
३३५ खटिक इति लोके प्रसिद्धः । ध्वजी मद्यपण्यस्तत्क्रयविक्रयजीवी । वेशः पण्यवृत्तिस्तया यो जीवति स्त्री वा पुमान्वा ॥ ८४ ॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः॥
दशध्वजसमो वेशो दशवेशसमो नृपः ॥ ८५ ॥ उत्तरस्योत्तरस्य दोषगुरुत्वज्ञापनार्थमेतत् । आपद्युपायो वक्ष्यते ॥ ८५॥ ५
दशसूनासहस्राणि यो वाहयति सौनिकः ॥
तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ ८६ ॥ सूनया चरति सौनिकः । वाहयति स्वार्थसाधने व्यापारयति । घोरः भीषणोऽयं नरकादिहेतुत्वात् अवयुत्यवादेन राजप्रतिग्रहे निन्दा ॥ ८६ ॥
यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः॥
स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ ८७ ॥ लुब्ध आदानशीलः सामन्तकादिभ्यः श्रुतशीलं च विज्ञायेत्यादि । उच्छास्त्रवर्ती शास्त्रमतिक्रम्य व्यवहरति । असद्दण्डपरस्त्रीहरणादिना पर्यायेणैकत्र फलमनुभूयान्यत्र गच्छति । नरकशब्दो निरतिशयदुःखवचनः । केवलदुःखश्रवणार्थापत्या वाऽऽदेशविशेष. वचनः । एकविंशतिसंख्याऽर्थवादः ॥ ८७ ॥
तामिस्रमन्धतामिस्र महारौरवरौरवौ ॥ नरकं कालसूत्रं च महानरकमेव च ॥ ८८॥ संजीवनं महावीचिं तपनं संप्रतापनम् ॥ संहातं च सकाकोलं कुमलं पूर्तिमृत्तिकम् ॥ ८९ ॥ लोहशंकुमृजीपं च पन्थानं शाल्मली नदीम् ॥
असिपत्रवनं चैव लोहदारकमेव च ॥ ९ ॥ श्लोकत्रयं स्पष्टार्थम् ॥९॥
एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ॥
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकांक्षिणः ॥ ९१ ॥ पूर्वस्य प्रतिग्रहनिषेधविधेरुपसंहार एषः । राज्ञः प्रतिग्रहो विविधदुःखनरकादिहेतु- २५ रिति जानन्तो विद्वांसो ब्राह्मणा न राज्ञः प्रतिगृह्णीयुः । प्रेत्य भवान्तरे । श्रेयः कल्या. णम् । ये कांक्षन्ति कामयन्ते । प्रत्येति त ल्यबन्तप्रतिरूपकं शब्दान्तरम् । ब्रह्म १र-ण-सांतनकादिभ्यः । २ अ. ११ श्लो. २२। ३फ-प्रतिमूर्तिकम् । ४ र-ण-वा । ५ र-ण-एतत् ।
For Private And Personal Use Only