________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४ मेधातिथिभाष्यसमलंकृता।
[चतुर्थः न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः॥ न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद्विना तनः ॥ ८२ ॥
सहताभ्यां संश्लिष्टाभ्यामितरेतरसंसृष्टाभ्यां युगपव्दाभ्यां प्रतिषेधः । पाणिभ्यामिति बाह संहतौ निषेधति । आत्मन इति न परस्य । अतश्चान्येन संहताभ्यां कण्ड. यतो न दोषः । शिरोगृहणात्पृष्ठादावदोषः । न स्पृशेचैव शिरो हस्तेनात्मनोऽन्यहस्तेन वाऽवयवेनेति केचित् । तत्र पाणिभ्यामिति प्रकृतत्वात् । न च स्नायाच्छिरसा विना। नित्यनैमित्तकयोः स्नानयोरयं विधिः ।
ननु स्विन्नस्य लौकिके स्नाने कुत एतत् । स्नानविधिनैकवाक्यत्वात् । विहितस्नानापेक्षा प्रत्यासत्त्या युक्तिमती लोके तु विधेरभावादप्राप्तिः। स्नातिश्चायं सर्वाङ्गसंबन्धिनि १० सलिलगोमूत्रादि प्रक्षालने वर्तते । शिरोवर्जिते च तत्र चण्डालादिस्पर्शने शिरोवर्जित
मपि यदृच्छाप्रसक्तं निवार्यते । न च स्नायाद्विना ततः। अस्ति च लौकिकमशिरस्कमपि स्नानं येन शिरःस्नानं " शिरः स्नातस्त तैलेनेति " ॥ ८२ ॥
केशग्रहान्महारांश्च शिरस्येतान्विवर्जयेत् ॥ शिरःस्नातश्च तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥ ८३॥
आत्मनः परस्य वेत्यविशेषेण केचिदिच्छन्ति । अन्ये त्वात्मन इति प्रकृतमभिसं. बध्नन्ति । क्रोधनिनिमित्तश्चायः प्रतिषेधः । सुरतसंभोगे तु कामिन्याः केशग्रहः स न निषिध्यते। शिरःस्नानं क्षालितमनेनेति राजदन्तादेराकृतिगणत्वात् परनिपातः । शिरःस्नात इति बाहुलेकेन समासः । नाङ्गमात्मीयम् ॥ ८३ ॥
न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ॥ २० मूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ ८४ ॥
उक्तं " राजतो धनमम्विच्छेदिति " ( अ. ४ श्लो. ३३ ) । राजशब्दश्चायं क्षत्रियजातावक्षत्रियेऽपि जनपदेश्वरे दृष्टप्रयोगो ' ब्राह्मणानां राज्यमिति ।। तत्र प्रतिग्रहविधौ तन्निषेधे च जनपदेश्वरवचनो गृह्यते । येनाह अराजन्यप्रसूतित इति । जन
पदैश्वर्य हि सर्ववर्णसंभवि लिप्सया । अतो विशेष्यते । राजन्यात्क्षत्रियाद्यस्य प्रसूतिरुत्पत्ति२५ नास्ति तस्माद्राज्ञो जनपदेश्वरान्न गृह्णीयात् । क्षत्रियादपि लुब्धादुच्छात्रवर्तिनो वक्ष्य
माणेन प्रतिषेधेन । सूना पशुमारणसंज्ञकपूर्वकेण मांसक्रयेण यो जीवति स सूनावान् ।
१ र-ण-कण्डूयते । २ र-ण-सहतो संश्लिष्ठौ । ३ फ-युक्तिमति । ४ र-तर । ५-व्या. सू. 'राजदन्तादिषु परम् ' ( २।२।३१)। ६ व्या. सू. (२।१।३२)।
For Private And Personal Use Only