________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ] मनुस्मृतिः।
३३१ शूद्रस्य दृष्टादृष्टविषये हिताहितोपदेशो न कर्तव्यः । शूद्रस्य मन्त्रित्वं न कर्तव्यमिति यावत् । वृत्त्यर्थश्चायं निषेधः । सौहार्दादिना तु न दोषः । भवन्ति हि शूद्राः कुलमित्राणि मैत्र्या चावश्यं हितमुपदिश्यते । अनुज्ञाता च सर्ववर्णे ब्राह्मणस्य मैत्री " मैत्रो ब्राह्मण उच्यते ।"
ये तु व्याचक्षतेऽपृच्छतो न ब्रूयादित्युपन्यस्य युक्तं शास्त्रान्तरसिद्धत्वात् । ५ "नापृष्टः कस्यचिद्रयादिति" (अ. २ श्लो. ११०) तदयुक्तम् । तत्र हि स्वाध्यायविषयं स्वरवर्णगतमन्यत्वमसंगतं वा कुर्वतो विनाशितं त्वयेत्यादाक्पृष्टेन न वक्तव्यम् । यथा चामी नाध्याप्या इत्यस्मिन्प्रसङ्ग इदमुक्तं " नापृष्टो ब्यादिति "। अशिष्यस्यापृच्छतो विस्वरं व्यक्षरं वा पठतो न किंचिद्वक्तव्यामति तस्यार्थः ।
__नोच्छिष्टमिति । उच्छिष्टशब्दोऽयं भुजिनिमित्तेऽप्राशस्त्ये वर्तते । कृतमूत्रपुरीषो. १० ऽप्यनाचान्त उच्छिष्ट उच्यते । यथा वक्ष्यामो "न स्पृशेत्पाणिनोच्छिष्टः" । बाहुल्येनोच्छिष्टप्रयोगो मुनिसंबन्धेन भुञ्जानस्य ह्यन्तरास्यसंस्पर्शेन बहिरन्तः स्थितस्योच्छिष्टत्वं भवति । तथा च "न श्मश्रूणि गतान्यास्यमिति " श्मश्रुभ्योऽन्यदास्यानुप्रविष्टमुच्छिष्टं करोतीति ज्ञापयति । अतश्च भोक्तुर्भुज्यमानस्य पात्रादेरधिकरणस्य चोच्छिष्टव्यवहारः । क्वचिच्चायं उपयुक्तेतरवचनोऽपि । हविरुच्छिष्टं दक्षिणेति । तत्र समाचारात्पात्र- १५ गृहीतमुच्छिष्टपुरुषसंबन्धमीषद्भुक्तमुच्छिष्टमुच्यते । यदपि विशदमोदनादिपात्रस्थमस्पृष्टमपि भोक्त्वा तदपि संबन्धात्समाचारतः परिह्रियते । तत्रोच्छिष्टमपि दातव्यम् । नोच्छिष्टमिति विधिप्रतिषेधावेकविषयाव॑तामृतशूद्रव्यवस्थया हविःशेषभेदेन वा विकल्पेते । अथवा स्थालीस्थमतिथ्यादिभुक्तशिष्टं *पर्युषितप्राय उच्छिष्ट तन्न शूद्राय दातव्यम् । तत्रोच्यते । जीर्णवसनसाहचर्याच्चैतदेव प्रतिपत्तुं युक्तम् । उपयुक्तेतरवचनत्वाच्च शिषे- २० रुपसर्गस्य तदर्थानुगुण्येन वर्तनाद्धविरुच्छिष्टं दक्षिणेतिवत्प्रयोगोऽप्यविरुद्ध एवमनयोः स्मृत्योरविरोधो भविष्यति । यद्यपि रुढ्याऽऽचमनार्हाः प्रायोऽत्र वचने दृश्यन्ते । यत्तु " वैश्यवच्छौचंकल्पश्चेति " तद्दासशूद्रविषयम् । भुक्तोज्झितमेव प्रतीयत इति दर्शयिष्यामः ।
न हविष्कृतम् । हविषे कृतं हविरर्थ कल्पितं बहुवचनः समासस्तादर्थेनोपकल्पित- २९ प्रतिषेधात् । दण्डापूपिकया यत्र हविर्गन्धोऽस्ति तत्सर्व प्रतिषिध्यते । तेन हविरथितया
१ रण-वक्तव्यः । २ र-अप्रायत्ते वर्तते; ण-प्रवर्तते। ३ श्लो. १४२ । ४ अ. ५ श्लो. १४१ ५फ-भोक्ता । ६ रण-मृतानामृतशूद्रव्यवस्थाया।* * एतत्पद्वदयं रण-पुस्तकयोरेव दृश्यते । ७ फ-एव । तयोः ८ रण-आचमनार्दो प्रयाव्यवचने दृश्यते । ९ अ. ५ श्लोक १४०,
For Private And Personal Use Only