SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ चतुर्थः आर्द्रपादस्तु भुञ्जीत नार्दपादस्तु संविशेत् ।। आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवामुयात् ॥ ७६ ॥ आदिकर्मणि विधिमिमं समाचरेत् । आर्द्रपादो भोजनमाचरेत् । न चातृप्तेः पादौ सिंचन्नासीत संविशेत् । शयने गात्राणि नावक्षिपेत् । संवेशनं शयने गात्रसंयोजनम् । अस्य फलमाह । दीर्घमायुरिति । नायमायुष्कामस्य विधिः । किंतर्हि ? पूर्ववन्नित्यः । आयुरनुवादस्त्वर्थवाद एव ॥ ७६ ॥ अचक्षुर्विषयं दुर्ग न प्रपद्येत कहिंचित् ॥ न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदी तरेत् ॥ ७७ ॥ दुर्ग दुर्गारोहं पर्वतादितरुगुल्मलतागहनं चारण्यं तन्न प्रपद्येत । नाक्रामेन्न १० गच्छेदचक्षुर्विषयं सर्पचौरा,रन्तर्हितस्य भावाशङ्कया । चक्षुर्ग्रहणमागमादेरपि प्रमाणस्य लक्षणम् । न विण्मूत्रं उदीक्षणं वर्णादिना निरूपणं च चिरकालप्रेक्षणानि भवन्ति इति । अत एव तन्न कर्तव्यम् । दैवात्क्वचिदृश्यमाने न दोषः । नदीबाहुतरणं च स्वस्थस्य निषिध्यते । न वृकभये ॥ ७७ ॥ अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः ॥ न कार्यासास्थि न तुषान्दीर्घमायुर्जिजीविषुः ॥ ७८ ॥ कपालिकाः भग्नस्य शकलानि दीर्घमायुः। व्याख्याता द्वितीया ॥ ७८ ॥ * न संवसेच्च पतितैर्न चाण्डालैन पुल्कसैः॥ न मूर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ ७९ ॥ ननु च " नाधार्मिकजनावृते " " नोपसृष्टेऽन्त्यनैः" इति चोक्तमेवैतत् । नेति २० ब्रूमः । तत्र निवासः प्रतिषिद्धः । इह तु संवासः । यत्र ग्रामे ते वसन्ति न तत्र वस्तव्यं गृहस्थित्येति तत्रोक्तं; संवासस्तु तैः सह संव्यवहारो दानग्रहणादिभिमैत्रीकरणम् । तद्गहसमीपे च वासोऽपि एकतः छायोपजीवनमित्यादि । आवृतग्रहणाच तत्र बाहुल्यं गम्यते । यस्मिन् ग्रामे भूयांसस्ते तथा समीपेऽपि न वस्तव्यमिति तस्यार्थः । इह त्वबाहुल्येऽपि समीपवासादि प्रतिषिध्यत इत्येष विवेकः । पुल्कसा निषादाः शूद्रायां जाताः । अन्त्या मेदप्रभृतयो म्लेच्छा अन्त्यावसायीति निषादस्त्रियां चण्डालाज्जातो वक्ष्यते ( अ. १० श्लो. ३९ ) " निषादस्त्री चण्डालात्" इत्यादि । अवलिप्ता मदोद्धताः धनादिना गर्विताः ॥ ७९ ॥ न शुद्धाय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ॥ ४ न चास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ।। ८०॥ * [ न कृतभैरनुयुक्तैर्न महापातकान्वितैः । न दस्युभिर्नाशुचिभिर्नामित्रैश्च कदाचन ] x[अन्तरा ब्राह्मणं कृत्वा प्रायश्चित्तं समादिशेत् ॥ ] १फ-न त्वातृप्ते। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy