SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२९ अध्यायः ] मनुस्मृतिः। न विगृह्य कथां कुर्याद्धहिर्माल्यं न धारयेत् ॥ गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ७२ ॥ अभिनिवेशेन पणबन्धादिना यल्लौकिकेषु शास्त्रेषु वाऽर्थेष्वितरेतरं जल्पनमहोपुंरुषिका या सा विगृह्य कथा । बहिर्माल्यं वाससो बहिःकण्ठस्थां स्त्रजं वाससा छादयेत् । तथा च समाचारः ।। अपरे बहिरित्यनाव॑तो देश उच्युते । तत्र नगररथ्यादौ न प्रकटमाल्यो भ्राम्योदत्याहुः । अथवा बहिर्गन्धं बहिर्माल्यं यस्य गन्धो नातिसंवेद्यते । एवं स्मृन्यन्तरम् । " नागन्धां स्रनं धारयेदन्यत्र हिरण्मय्या" इति । गवां च पृष्ठे यानं पर्याणं विना साक्षाद्वारोहणं प्रतिषिध्यते । सर्वथेति पर्याणाच॑न्तरायेऽपि गन्व्यादियुक्तेऽपृष्ठयानत्वादप्रतिषेधः ॥ ७२ ॥ अद्वारेण च नातीयाद्रामं वा वेश्म वा वृतम् ।। रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ७३ ।। आवृतस्य वाटपरिक्षेपादिना ग्रामस्य अद्वारप्रवेशप्रतिषेधः। अनावृतस्य तु द्वारवतोऽपि यथाकामम् ॥ ७३ ॥ नार्दीव्येत्कदाचित्तु स्वयं नोपानहौ हरेत् ॥ शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ७४॥ अन्तरेणापि ग्लहं परिहासेन नार्दीव्येदिति । कदाचिद्रहणं शलाकादीनामपि दर्शनार्थम् । तेन सर्वस्य द्यूतस्य प्रतिषेधः । स्वयं चर्ममयं पादत्राणमुपानहौ च ते आत्मना हस्तेन दण्डादिना वा गृहीत्वा देशान्तरं नानयेत् । आत्मीययोश्चायं प्रतिषेधः । स्वयमिति प्रकृतत्वात्तेन च गुर्वादिसंबन्धिन्योरनिषेधः । शयने खटादौ उपविश्य न भुञ्जीत। २० पाणौ च कवलं स्थापयित्त्वा भाजनाद्यनन्तरितेन आसने अन्नं स्थापयित्वा आनन्तर्याभोज्यस्य प्रतिनिर्देशः न भोक्तुः ॥ ७४ ॥ सर्व च तिलसंबद्धं नाद्यादस्तमिते रवौ ॥ न च नग्नः शयीतेह न चोच्छिष्टः कचिद्रजेत् ॥ ७५॥ अस्तामिते आदित्ये प्रतिलक्षणे कर्मप्रवचनीयत्वात् द्वितीया । न चोच्छिष्टः । २५ ननु च ब्रह्मचर्यधर्मेष्वेतत्प्रतिषिद्धम् । पुरुषधर्मता च तस्य ज्ञापिता न तादर्थ्यमेव । सत्यं व्रतरूपताज्ञापनार्थ उपदेशोऽयम् । तेन यावज्जीविकः संकल्पः कर्तव्यः ॥ ७ ॥ १" अहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि " इत्यमरः। २ फ-वासस्छादयेत् । ३ फ-अनावृतादेशं । ४ फ-पर्याणादान्तरायेऽपि । ५ फ-क्रीडेत् ६ फ-चर्मपादत्राणं । ७ फ-निर्देशे। ८-लक्षणेत्थंभूताख्योन " (व्या. सू. १।४।९०)। फ-न त्वातृसो। ४२ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy