________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२८
मेधातिथिभाष्यसमलंकृता।
[ चतुर्थः अन्ये त्वेवमभिसंबध्नन्ति । न छिन्द्यान्नखरोमणि दन्तैरिति । नखांश्च दन्तेनापिः न पातयेत् । नखर्भङ्गयोजनासु हि कामिन्यो नाना नखान् दारयन्ति ॥ ६९ ॥
न मूल्लोष्ठं च मृनीयान्न च्छिन्द्यात्करजैस्तृणम् ॥
न कर्म निष्फलं कुर्यान्वायत्यामसुखोदयम् ॥ ७० ॥
विमर्दनं खण्डशः करणं लोष्ठस्य मृत्संबन्धिनः । केचित्तु मृदो लोष्ठस्य सुधादिसंबन्धिनोऽपि मृदश्च मर्दनं उत्क्षिप्योत्क्षिप्य पातनं हस्तेन संहननं वा । एतच्च मर्दनं यत्किचनकारितया प्राप्तं निषिध्यते । न तु शौचाद्यर्थे प्रयोजने निष्फलग्रहणस्य पुरस्तादपकर्षात् । तेनैव सिद्धे प्रायश्चित्तविशेषार्थः पुनरारम्भः ।
करजा नखाः । न कर्म । ननु च "न कुर्वति वृथाचेष्टाम्' (श्लो.६३) इत्यनेनैव १० निष्फलं कर्म । अत्राहुः । चेष्टा भौतिको व्यापारः । इह तु सामान्यस्य पर्युदासः । तेन
मनोराज्यादिकल्पाः परिहरणीयाः । आयतिरागामी कालः । यस्मात्कमण आगामिनि काले असुखं दुःखमुत्पद्यते । यथा अजीर्णभोजनं कुटुम्बभृतिमचिन्तयित्वा महतो धनस्य व्ययश्च तं न कुर्थात् ॥ ७० ॥ अत्रार्थवादः
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः॥ स विनाशं व्रजत्याशु सूचकोऽशुचिरेव च ॥ ७१ ॥
अस्मादेव केवलालोष्ठग्रहणात् पूर्वोक्तमूलोष्ठमिति षष्ठीसमासो विज्ञायते उभयप्राधान्ये हि मृद्रहणं लोष्ठ इव अत्राकरिष्यता तस्यैव अस्तेन सुमर्दत्वात्प्राप्तः पर्युदासः ।
सुधायास्तु काठिन्याद्यत्नसाध्यं मर्दनं तन्नवासति प्रयोजने प्राप्तम् । मृल्लोष्ठमर्दनं तु हस्तेन २० पुरुषाणां स्वभावतः केषांचित्प्राप्नोति तस्य पर्युदासः । तृणच्छेदी प्रकृतोदन्तैर्नखान्
खादति । सूचकः पिशुनः कर्णेजपः । यः परस्य दोषानसतः सतो वा परोक्षं व्याख्यापयति । अशुचिरुक्तार्थः । विनाशमाशु व्रजति । न यथाऽन्यानि वैदिकान्यनियतकालानि फलानि एवमेतत् । किंतर्हि ? इहैव जन्मनि अचिराद्धनादिना वियोगो विनाशः ॥ ७१॥
१ फ-नखभङ्गो । २ फ-ननु । ३ फ-यस्मात्कर्मणागामिनि । ४ फ-तत्रैव ।
For Private And Personal Use Only