________________
Shri Mahavir Jain Aradhana Kendra
३२४
१०
www. kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थ:
" चत्वार्येव
तु
1
कर्माणि सन्ध्याकाले तु वर्जयेत् । आहारं मैथुनं निद्रां तथा संपाठमेव च ॥" न चैव प्रलिखेत्प्रकर्षेण लेखनं विदारणं भूमेर्निषिध्यते । न तु वर्तिकादिनाऽक्षरविन्यासः । नात्मनोपहरेत्स्रजं ग्रथितानि पुष्पाणि स्रक् तां स्वयं कण्ठे शिरसि वा प्रधृता म्लानतया गुरुत्वेन वाऽऽर्त्मनो न व्यपनयेत् । अर्थादन्येन पनयेदित्युक्तं भवति । सर्व एवायं सन्ध्यायां विधिरिति केचित् ॥ १५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
नाप्सु सूत्रं पुरीषं वा ष्ठीवने वा समुत्सृजेत् ॥ अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ।। ५६ ॥
लोहितं रुधिरम् । विषाणीति बहुवचनं कृत्रिमाकृत्रिमभेदेन स्थावरजङ्गमभेदेन रागादिप्रकारभेदेन वा ॥ ५६ ॥
*नैकः शून्यगृहे स्वप्यान्न श्रेयांसं प्रबोधयेत् ॥ नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चाहृतः ॥ ५७ ॥
शून्यं गृहं यत्र न कश्चित्प्रतिवसति । न श्रेयांसं कनीयान्वृत्तादिभिर्ज्येष्ठमिर्द ते युक्तमिदमयुक्तमिति हेतूपदेशादिना न प्रबोधयेत् । उदक्या रजस्वला तया सह संभाषणं न कुर्यात् । यज्ञं गच्छेन्न चावृतः यज्ञभूमिमनिमन्त्रितो न गच्छेत् " दर्शनाय १५ तु कामम् " इति गौतम : ( अ. ९ सू. १५ ) । अतो यज्ञे भोजनादिप्रतिषेधोऽयमवृतस्य ॥ ५७ ॥
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च सन्निधौ ॥
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ १८ ॥
गोष्ठशब्दोऽयं निवासवचनः समासप्रतिरूपकालः शब्दान्तरं ब्राह्मणानामिति
२० बहुवचनं विवक्षितम् । पाणिग्रहणं वाहूपलक्षणार्थम् । भोजने आत्मकर्तके ॥ ५८ ॥
न वारयेद्गां धयन्तीं न चाचक्षीत कस्यचित् ॥
न दिवन्द्रायुधं दृष्ट्वा कस्यचिद्दर्शयेदुधः ।। ५९ ।।
गामात्मीयां परकीयां वा पिबन्तीं अपः पयो वा न वारयेत् । न चान्यस्मै कथयेत् । प्राग्दोहकालादयं विधिः । दोहकाले तु प्रस्रवणं विहितम् । स्त्रीलिङ्गनिर्देशात्
* [ एकः स्वादु न भुञ्जीत स्वार्थमेको न चिन्तयेत् ॥
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ १ ॥ ]
१ ण - संपठमेव च । २ र-ण- आत्मना व्यपनयेत् । ३ र-ण-अनेन । ४ फ-नैकः सुप्याच्छून्यगेहे ।
For Private And Personal Use Only