SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ३२३ मेवोच्चरेत् । यत्र दिग्भागो न ज्ञायते अन्धकारे तत्रायं विधिः । प्राणबाधः प्राणपीडा । भयं चौरादिकृतम् ॥ ५१॥ प्रत्यग्निं प्रतिसूर्य च प्रतिसोमोदकद्विजम् ॥ प्रतिगुप्रतिसंध्यं च प्रज्ञा नश्यति मेहतः ।। ५२ ॥ कोचदिमं श्लोकमस्मिन्नध्याये नाधीयते । अस्यार्थवादः । ननु चोदङ्मुखस्य मेहनविधानात्पूर्वस्यामुदयाच्च सूर्यस्य कुतस्तदाऽऽभिमुख्यं भवेद्येन प्रतिसूर्य निषिध्यते । अर्थवादोऽयम् । “ नान्तरिक्षे न दिवीतिवत् " । अथवोदगयने उदीची दिशमाक्रमेत । स्यात्संभवः प्रकृतविषयो वा प्रतिषेधः । प्रतिसन्ध्यमिति पठन्ति तदयुक्तम् । “ सन्ध्ययोश्च यथा दिवे " त्यनुज्ञानाद्वेगधारणस्य च निषिद्धत्वात् । तस्मात्प्रतिवातमिति पठितव्यम् । पूर्वशेषोऽयम् । १० मेहतः शत्रंतस्तसन्तो वा । मेहतः पुरुषस्य मेहनाद्वा ॥ १२ ॥ नाग्निं मुखेनोपधमेनग्नां नेक्षेत च स्त्रियम् ॥ नामेध्यं प्रक्षिपेदनौ न च पादा प्रतापयेत् ॥ ५३ ॥ धवित्रादिनाऽग्निर्मातव्यः । नग्नां नेक्षेत स्त्रियम् । अन्यत्र मैथुनादिति । स्मृत्यन्तरम् । नामेध्यं मेध्यो यज्ञस्तदर्थ मेध्यं अमेध्यं यदयज्ञियं पलाण्डुमूत्रपुरीषादि १५ तन्नानौ क्षिपेत् । उत्क्षित्य साक्षादग्नौ न तापयेत् । अवच्छाद्य तापयित्वा स्वेदाद्यर्थमग्नितापनमदोषः ॥ १३ ॥ अधस्तानोपदध्याच न चैनमभिलंघयेत् ॥ न चैनं पादतः कुर्यान प्राणाबाधमाचरेत् ॥ ५४ ॥ खटास्थः अधस्ताद्वन्हिधानीं न कुर्यात् । उपधानं स्थानं, अवलङ्घनमत्प्लत्य २० गमनम् । पादतः अप्लुतस्य पादौ येन कुर्यात्माणाबाधं प्राणपीडाकरमतिश्रमवेगागमनादि नाचरेत् ॥ १४ ॥ नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ॥ न चैव पलिखेब्रूमिं नात्मनोपहरेस्रजम् ॥ ५५ ॥ सन्ध्याकालः सन्धिवेला । संवेशनं स्वापः स्वाध्यायं निषेत्स्यति । स्मृत्यन्तरे २५ स्त्रीसंबन्धोऽपि प्रतिषिद्धः १ अ-ड-क-स-समानये । २ र-ण-पुस्तकयोरयं श्लोकः ४८, ४९ श्लोकयोमध्ये दृश्यते । ३ण- यत+। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy