________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः प्रमत्तः कामशरैः पीडितोऽपि । आर्तवं स्त्रीलिङ्गशोणितं मासि मासि प्रसिद्ध तद्दर्शने न गच्छेत् । एकस्यां च शय्यायां तया सह न शयीत । स्पर्शप्रतिषेधादेव तत्सिद्धमिति चेत् नायं प्रतिषेधः । व्रतमिदं प्रायश्चित्तभेदश्च ॥ ४० ॥
रजसाऽभिप्लुतां नारी नरस्य ह्युपगच्छतः ॥ प्रज्ञा तेजोबलं चक्षुरायुश्चैव प्रहीयते ॥४१॥ रजः पूर्वोक्तमार्तवं अभिप्लुतां तेन संबद्धां । पूर्वस्यार्थवादः ॥ ४ १ ॥
तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ॥ प्रज्ञा तेजोवलं चक्षुरायुश्चैव प्रवर्धते ।। ४२ ॥ वृद्धिवचनं स्तुतिरेव ॥ ४२ ॥ नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ ४३ ॥
" नित्यमास्यं शुचिस्त्रीणामिति " (मनुः अ० ५ श्लोः १३०) शुचित्ववचनं "स्त्रीशूद्रोच्छिष्टमिति" च प्रतिषेधद्वयमपि विषयविभागेन व्यवस्थितम् । तत्र शुचित्ववचनं
"स्त्रियश्च रतिसंसर्ग" इति स्मृत्यन्तरदर्शनेन रतिस्त्रीविषयं विज्ञायते । अतः प्रतिषेधोऽपि १५ पारशेष्यादरतिस्त्रीषु मातृभगिन्यादिषु द्रष्टव्यः । यतो रतिर्नेह प्रीतिमात्रं किंतर्हि
मन्मथनिमित्तो भावविशेष इति शृङ्गारपर्वकोऽभिलाषादिरूपः । अतस्तद्युक्तासु शुचित्वं विपरीतासु प्रतिषेधः ।
रतिनिमित्तार्थतया भार्यया सह भोजने प्राप्त वचनमिदमारभ्यते नाश्नीयाद्भार्यया सामिति । अथ संसर्गग्रहणेन वृषस्यतो संप्रयोगविशेषः कथ्यते । तदानीं २० परिचुम्बनादेव शुचित्वमिति नास्ति भार्यया सह भोजनप्राप्तिः । तत्रेदं पनर्वचनं व्रत.
ज्ञापनार्थम् । ततश्च यावज्जीविकः संकल्पः कर्तव्यो यथा भार्यया सह भोजनं न भवति । एतच्च सहभोजनमेकाधिकरणमेककालदेशं नर्थविषयतया चोद्यत इति गत्वोच्छिष्टे प्रतिषेधगतार्थशङ्केति । स पुनरयमीदृशः सहार्थविशेषः प्रमाणान्तरतः स्मृत्यन्तरसमा
चारादेरेशेषशब्दार्थो ह्यन्यारेक्षितमात्रम् । तथा " इतरानपि सख्यादीन्....भोजयेत् सह २५ भार्ययेति " ( अ, ३ श्लो. ११३)।
१ वासिष्ठे अ. २८ सू. ८ । २ फ-परिशेष्यात् । ३ “ अश्ववृषयोमैथुनेच्छायाम् " इति (व्या. सू. ११५१); 'अश्वक्षीर-' वार्तिके । ४ ण न अर्थविषयतया । ५फ-स्मृत्यन्तमाचारादे; ड-अवशेष शब्दथेद्यध्यापेक्षित मात्रम् ।
For Private And Personal Use Only