________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१९
अध्यायः ]
मनुस्मृतिः । शुद्धिरवधेया । हस्तमार्जनं तूच्छिष्टपुरुषसंस्पर्शाद्यशुचित्वात् । तथा च गौतमः, " क्वचिच्छौचाथै संनिधाय ” इत्याह । अत इहापि संनिधानमेवाभिप्रेतं न स्वात्मना ग्रहणम् । वेदो दर्भमुष्टिस्तस्य च " प्राणोपस्पर्शनं दभैः” इत्यादि प्रयोजनम् । अतश्चादृष्टार्थानां सार्वकालिकशरीरसंबन्धो दृष्टार्थानां तु संनिधिनित्यं प्रयोजनतस्तु ग्रहणमिति । शुभे दर्शनीये आकारतः तापछेदकपैश्च सुवर्णशुद्धया ॥ ३६ ॥
नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदाचन ॥
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ ३७॥ उपमुष्टो ग्रहोपरक्तः । उदके प्रतिबिम्बितो वारिस्थः । नभः अन्तरिक्षं तस्य मध्यगतं पश्येन्न मध्यान्हकाले ।। ३७ ॥
न लङ्घयद्वत्सतन्त्रीं न प्रधावेच्च वर्षति ॥
न चोदके निरीक्षेत स्वरूपमिति धारणा ॥ ३८ ॥ वत्सबन्थनार्था रज्जुर्वत्सतन्त्री वत्सपतिवां तां न लङ्घयेन्नापक्रामेत् । तथा च गौतमः (अ. ९ सू. ५२ ) " नोपरि वत्सतन्त्री गच्छेत् " । स्वरूपं शरीरसंस्थान स्वग्रहणात्परस्य रूपप्रेक्षणं न पर्युदस्यते । इति धारणा एष निश्चयः शास्त्रेषु ॥ ३८ ॥
मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ॥
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ३९ ॥ ___ प्रस्थितस्याभिमुखागतान् मृदादीन् प्रत्ययं विधिः । मृदादयो येन दक्षिणो हस्तः तेन कर्तव्याः । उद्धृता च मृदेव कर्तव्या । एवं हि शास्त्रान्तरं प्रस्थानाधिकारे पठति 'प्रदक्षिणमावत्यति ' । दैवतं पटादिलिखितम् अर्चा । गौतमस्तु “ देवतायतनानि सप्रदक्षिणमनुवर्तेतेति" पठति । लोकप्रसिद्धया चतुर्भुजमार्तण्डागारादि देवतायतनं विज्ञेयम्। २० ' यज्ञगृहाणि चेति ' वक्ष्यति । मधुवृतमहाचर्यान् सारचं मगल्यमध्यपाठाच्च । प्रजाता वनस्पतयो महाप्रमाणाः प्रसिद्धा वनस्पतयो महावृक्षाः प्रमाणतः पुष्पफलातिशयतो वा प्रसिद्धा उदुम्बरादयः । " ऊर्खा उदुम्बरः" इत्यर्थवादः । ये तु गुणाधिकान्प्रज्ञातानाचक्षते ते निर्मूलप्रासिद्धिमात्रप्रमाणका उपेक्षणीयाः ॥ ३९ ॥
नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने ॥
समानशयने चैव न शयीत तया सह ॥ ४०॥ १फ-प्रयोजनं वस्तु । २ र-कषैश्च । ३ फ-स्वं रूपमिति । । फ-मुखागतान् । ५ फ-आवर्तेति । ... ६ फ-महावर्यान् । ७ रण-सीवां उदुम्बरः।
For Private And Personal Use Only