SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ मेधातिथिभाष्यसमलंकृता । [ चतुथैः शुचिरित्याह । दीर्घकेशस्य हि स्नानादिषु क्लेशसाध्यत्वात् अलसः स्यात्तथाऽशुचित्वप्रसङ्गः । यदि तु केशादिप्रसृतोऽपि स्नानपरः स्यान्नैव धारणं दुष्येत् । दान्तः दर्पवर्जितः । शुचिः अर्थेषु श्रुतिनिमित्तैम॒द्वार्याचमनादिभिश्च । वेदाध्ययने च नित्याभियुक्तः । उक्तोऽप्ययमर्थ आदरार्थः पुनः पुनरुच्यते । आत्महितानि व्याधेः प्रतीकारादिना अजीर्णातिवेलगुरुविदाहिभाजनवर्जनादीनि ॥ ३५ ॥ वैणवीं धारयेद्याष्टिं सोदकं च कमण्डलुम् ॥ यज्ञोपवीतं वेदं च शुभे रोक्मे च कुण्डले ॥ ३६॥ यज्ञोपवीतकुण्डलयोर्धारणं शरीरसंयोगः । अस्य च यस्मिन्नङ्गे समुचितः सन्निवेशः स तत्रैव विनियोजनीयः । यथा कुण्डलं कर्णयोरुपवीतं काय इति कर्णाभरणस्य १० कुण्डालाख्यत्वात् । कण्ठसक्तस्य च सूत्रस्य दक्षिणबाहूद्धारणेनोपवीतत्वात् । दृष्टप्रयोजन त्वाच्च यष्टयादिना सर्वदाऽङ्गसङ्गः । तथाहि यष्टिधारणं श्रान्तस्यावलंबनार्थ संमुखागतघातकगवादिनिवारणार्थ च । उद्धृतोदकेन शौचस्य विहितत्वात् आधारापेक्षया कमण्डलुनियम्यते । स च तुल्यकार्यत्वात् कलशादीन् निवर्तयति न कुण्डलकटकादीन् । अतश्च पुरीष निमित्तस्योदकशोध्याशुचित्वापनोदाथै सोदकत्वं कमण्डलोः । उक्तं च । " मुहूर्तमपि १५ शक्तिविषये नाशुचि तिष्ठेदिति" । शक्तिविषय इति । यदि पूर्वगृहीतमुदकमुपयुक्तमन्यथा प्राप्तमशुचित्वनिमित्तं च श्लेष्मनिष्ठीवनाद्युत्पन्नं तत्रोद॑कालाभादशुचिरवस्थाने न दोषः । तथापि मूत्रपुरीषवित्रंसने स्नानं वक्ष्यति ( अ.११ श्लो.२० ) “विनाऽद्भिरप्सु तर्पत शारीरं संनिषेध्य तु । सचैलो बहिराप्लुत्येति "। शुचिश्च स्मृत्यन्तरे प्रतिपदमाम्नातः । एवं ह स्माह भगवान्वसिष्ठः [ अ. १२ सू. १५-१७ ] "अप्सु पाणौ च काष्ठे च कथितः पावकः शुचिः। तस्मादुदकपाणिभ्यां परिमृज्य कमण्डलुम्।। " पर्यग्निकरणं होमं मनुराह प्रजापतिः । कृत्वा चावश्यकार्याणि आचामेच्छौचवित्तमः"। बौधायनेनाप्युक्तम् “ अथ कमण्डलु धार्यम् ” इत्युपक्रम्य " तस्माच्छौचं ततः कृत्वा परिमृज्य कमण्डलुम् । पर्यग्निकरणं ह्येतद्यद्वस्नुपरिमार्जनम् ॥ "तथा कमण्डलु परिहरेत्पूर्वावस्थोऽप्यशौचतः । न चैनं कुत्सयेद्विद्वान्न शङ्केन च दूषयेत्॥" आकारविशेषनिमित्तश्चायं शब्दो न जातिमाद्रियते । अतो मृन्मयस्य सौवर्णस्य राजतस्य वा एषैत्र शुद्धिर्न प्रकृतिनातिसंबन्धिनी । मूत्रादिस्पर्शे तु प्रकृतिजाति १ फ-आचारापेक्षया । २ रण-उदकलाभात् । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy