SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ चतुर्थः: मेधातिथिभाष्यसमलंकृता। शक्तितोऽपचमानेभ्यो दातव्यं गृहमधिना ॥ संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ ३२ ॥ अपचमाना ब्रह्मचारिपरिबाजका इत्याहुः । तदुक्तं ' मृताय नित्यवद्दान' विहितमेव । ' भिक्षां च भिक्षवे दादिति । । तस्माद्ये दरिद्रा भैक्षजीवनाश्च पाखण्ज्यादयः तेभ्यः शक्तितो दातव्यम् । यावद्भयः शक्यते यावच्च पच्यते पचिक्रियाविरहनिमित्तत्वाच्च सिद्धान्नदानमेवेदम् । संविभागश्च अन्येनापि धनेन इन्धनपरिधानौषधाधुपयोगिना संविभागः कर्तव्यः कश्चिदंशो दातव्यः । सर्वभूतेभ्यः । भूतशब्दोऽयं चेतनात्मकं जगदाचष्टे । यथा “ गायत्री वा इदं सर्व भूतमिति "। अचेतनानां चेतनवदुपकारार्थतया मंविभागानुपपत्तेः चेतनाक. १० त्स्वेवावतिष्ठते । अतश्च " प्ररोहधर्मकाश्चेतनावन्त: ” इति दर्शने वृक्षादीनामपि जलसेकाद्यर्थो धनसंविभागः कर्तव्यः । बह्वर्थोऽयं भूतशब्दः । कश्चित्प्राधान्ये वर्तते 'भूतमियं ब्राह्मण्यस्मिन् गृहे.' । क्वचित्पैशाचवचनो 'भूतोपसृष्ट' इति । क्वचिद्विपरीतेऽर्थे वर्तते ' भूतमाहेति ' । क्वचिदतिक्रान्तकालवचनो 'भूतो धात्वर्थ ' इति । क्वचि देवताविशेषे · भूतेभ्यो बलिरिति । । कचिच्चेतनावन्मात्रवचनो ' न हिंस्याद्भूतानीति ।। १५ क्वचित्प्राप्तिवचनो 'महद्भूतश्चन्द्रमा' इति । क्वचिदुपमायां वर्तते । यथा काव्यभूत ' इति । कचिदुत्पत्तिवचनो यथा ' देवदत्तस्य पुत्रो भूत' इति । इह तु यः पदार्थस्तव्याख्यातम् । भूतेभ्य इति तादर्थ्य चतुर्थी । अनुपरोधतः आत्मकुटुम्बपीडा यथा न भवति. तत्पर्याप्तं स्थापयित्वा अधिकेन संविभागः कर्तव्यः । तदुक्तं ( मनुस्मृ. अ. ११ श्लो. १०)" भृत्यानामुपरोधेनेति " ॥ ३२ ॥ राजतो धनमन्विच्छेत्संसीदन्नातकः क्षुधा ॥ याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ ३३ ॥ राजग्रहणमाढ्यवर्णोपलक्षणार्थम् । तथा च वक्ष्यति ( अ. १० श्लो. ११३ ), " सीदद्भिः कुप्यमिच्छद्भिर्धनं वा पृथिवीपतिः । याच्यः स्यादिति । तेन राजशब्दः क्षत्रियजातौ मुख्यः। तथापि शास्त्रान्तपालोचनया जनपदेश्वरवचन इति गम्यते । २५ जनपदेश्वरा हि बहुधना भवन्ति । तेनैतदुक्तं भवति । येऽत्यन्तसम्पन्ना गोऽजाविधनधान्यै स्तेभ्यः प्रतिग्रहीतव्यम् । तां सत्यद्रोहणेत्येतदाहृतं भवति । आढ्या हि ददतो नातीक पीड्यन्ते । स्वल्पधनेभ्यस्तु परिगृह्णतो दोषः स्यात् । मुख्यार्थवृत्तौ च राजशब्दे १ फ-व्याख्यानम् । २ र ण-तथा च सति । ३ रफ-आहतं । ४ रण-परिगृह्यतो । २० For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy