SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ मेधातिथिभाप्यसमलंकृता । [चतुर्थः ब्रुवत इति सन्तादन्यत्रापि । अस्मिन्नपि दर्शने आयुःशब्देन कालो लक्षयिष्यते । दीर्घकालं जीवनमिच्छन् । तत्र कालताऽवाऽवगंतव्या कर्मसंज्ञा ह्यकर्मणामिति कर्मत्वम् । एष चाहिताग्नेः पशुबन्धे नियमः आग्रयणेऽपि । गृह्याग्निमतोऽपि गृह्यस्मृतिषु नियमतया आग्रयणं विहितम् । यच्चेदं शरदि नवान्नमिति तत् ब्रीहिश्यामकयोर्न यवानाम् । न च सस्यमात्रेण सस्येष्टियागो न च माषमुद्गादिना यत इदं शास्त्रान्तरसापेक्षं न स्वतो विधायकमित्युक्तम् । शास्त्रान्तरेषु च ब्रीहिश्यामाकयवैराग्रयणेष्टिविहिता । किं त्वन्यदपि सस्यं नाशितव्यमकृतायामाग्रयणेष्टौ । यदुक्तमविशेषेण सस्यं नाश्नीयादिति तन्निषेधे ह्यभिप्रेते इयदेवावक्ष्यदाग्रयणं त्रीहिश्यामाकयवानां ऐतं नाश्नीयादग्निहोत्रमहुत्वेति । एवं सूत्रकारेण पठितम् । “आग्रयणं व्रीहिश्यामाकयवानां सस्यं नाश्नीयादग्निहोत्रमहुत्वेति"। १० अतोऽयं सस्यशब्दो न प्रतिनियतविषय एव ॥ २७ ॥ नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः॥ प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ २८ ॥ नित्यतामेव समर्थयते । अकरणदोषदर्शनेने नवेन सस्येन अनर्चिता अकृतहोमा अग्नयोऽस्याहिताग्नेः प्राणानेवात्तुमिच्छन्ति भक्षयितुम् । गर्धिनः गधै अभिलाषाति१५ शयः तदस्यास्तीति मत्वर्थीय इनिः ॥ २८ ॥ आसनाशनशय्याभिरद्भिर्मूलफलेन वा ॥ नास्य कश्चिद्वसेद्हे शक्तितोऽनर्चितोऽतिथिः ॥ २९॥ . उक्तमिदमुत्तरार्थमनूद्यते । न कश्चिदतिथिग्नर्चितो गृहे वसेत् । सर्वोऽतिथिरचितो गृहे वसनीयः । शक्तित एको द्वौ बहवो यावन्तः शक्यन्तेऽर्चयितुं सर्वे आसनादिभिरचनीयाः । अर्चापूर्वकमेतदेभ्यो वसतां प्रकल्पनाय न तु सर्वेण सर्वमासनाशनशय्यानां सत्वनिर्वृत्तिरुच्यते । भक्तयूषमांसान्नाज्याशनासंभवे पृथगुपादानात् मूलफलं दातव्यम् ॥ २९ ॥ पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्छठान् ॥ हैतुकान्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ ३० ॥ २५ अत्र वसेदिति लिङ्गात्सायमातिथ्यप्रतिषेधोऽयं पाखण्ड्यादीनामित्याहुः । तद युक्तं अर्चनीयताऽत्र निवार्यते । न तु सर्वेण सर्वभक्तायदानमेवोच्यते । दिवाऽपि भुञ्जानानां कतिचित क्षणावास उपपद्यत एव । अतो न लिङ्गं सायंकालस्य वसेदिति । तत्र २० १फ-कालभावा वचतव्या । २ फ-नियमत । ३ फ-नवसस्यमात्रेण ४ 'एतं । पदं फ-पुस्तके नास्ति । ५ फ-दर्शनं ६ रण-पूप । ७ फ-भक्तावदान । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy