________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
३११
ननु चोत्तर वाचि प्रौणं नेन्द्रियं नैष दोषः । आध्यात्मिकत्वोपलक्षणार्थमिन्द्रयग्रहणम् । बाह्यसाधनसाध्यता नास्तीत्येतदत्र विवक्षितम् ॥ २२ ॥
वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा || वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ २३ ॥
"
वाचं प्राणे जुहोमीति' ।
यदाऽयं पुरुष उच्छुसिति तदैवमनेन ध्यातव्यम् । भाषमाणेन च वाचि प्राणं जुहोमीति । एतावतैव पञ्चयज्ञा निर्वृत्ता नित्याः फलायै न वक्तव्याः आत्मज्ञयाश् चात्राधिक्रियन्ते । विहितो ह्ययमर्थः पञ्चाग्न्युपासनायां उपनिषत्सु कौषीतकी ब्राह्मणे विस्तरेण । अक्षयं फलतः अपुनरावृत्तिफलत्वात् ॥ २३ ॥
ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा ॥
ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ।। २४ ।। तैर्मखैः प्रकृतैर्महायज्ञैर्यजन्ते तद्विषयमधिकारं निष्पादयन्ति अतोऽर्थभेदाद्यजन्ते । यज्ञैरिति साध्यसाधकभावोपपत्तिः । यथाऽग्निष्टोमयाजीति ।
भवन्ति । यदि
I
अग्निहोत्रं च जुहुयादाद्यन्ते निशोः सदा ॥ दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ ६५ ॥
कथं पुनर्ज्ञानेन यागनिर्वृत्तिः । देवतोद्देशेन द्रव्यत्यागात्मको यागो न च ज्ञानमेव रूपम् । उच्यते । यजन्त इति यागकार्यनिर्वृत्तिरत्राभिप्रेता । यदि ज्ञानात्कार्यनिर्वृत्ति: १५ किमर्थं तर्हि कर्मणामनुष्ठानम् । न ह्यविषयः कर्मानुष्ठानसंभवः । अथेयं बुद्धिः “य उ चैनमेवं वेदेति” ज्ञानस्यापि फलसाधनत्वेन आश्रवणात् । तुल्यं कर्मानुष्ठानेनेति तदसत्। अन्यशेषतया तस्यार्थवादत्वात् । अत्रोच्यते । उक्तमस्माभिरनीहमाना आत्मज्ञ अधिक्रियन्ते त एव ज्ञानिनोऽप्रोमिता न कर्मानुष्ठानवेदिनः तेषां वेदसंन्यासिकतया गृहे अवतिष्ठमानानां महायज्ञानां भावनेयमुच्यते । द्र्व्यसाध्यानां च महायज्ञानां आत्म- २० ज्ञानसंपादनमेवमुच्यते । स्वाध्यायोदकतर्पणयोस्तु कर्मसाध्यतामेव षष्ठे वक्ष्यति ।
अत्र कारणरूपमर्थवादमाह । ज्ञानमूर्ली ज्ञानं मूलमस्यः क्रियायाः सर्वस्य कर्मानुष्ठानस्य ज्ञानं मूलं न ह्यविद्वान् किंचिदनुष्ठातुं शक्रेोति । तदुक्तं " विद्वान्यजेत इति " । पश्यन्तो ज्ञानचक्षुषा । ज्ञानं चक्षुरिव । यथा चक्षुषा रूपं गृह्यते एवं ज्ञानात् ज्ञायते न तत् ज्ञानं वेद एवाभिप्रेतः ॥ २४ ॥
For Private And Personal Use Only
१०
२५
फ - प्राणानेन्द्रिये । २ फ-भाषणेन ३ फ-जुहोति । ४ फ-फलायतेन । ५ र-ज्ञातेव; ण-ज्ञातरूपम् । ६ फ-अविषयकर्मानुष्ठान | फ-आश्रयणात् । ८ फ-कृतं । ९ फ-आत्मज्ञाने । १० फ- हव्य । ११ फ-ज्ञानात् । १२ फ-यस्यात् । १३ क - यजयेत् ।