________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[चतुर्थः समधिगमोऽभिनिवेशः अभ्यास इति यावद्विजानाति विशेषेण जानाति । प्रत्यक्ष चैतदभ्यस्यमाने ग्रन्थेऽपि यद्विद्यत इति । तदा विज्ञानं चास्य रोचते। उज्ज्वलं भवतीत्यर्थः । पूर्वस्याः स्मृतेर्मूलकथनमेतत् । रुचेरनभिलाषार्थत्वाद्रुच्यर्थानामिति संप्रदानत्वाभावः ॥ २०॥
ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ॥ नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ २१ ॥
तृतीयाध्याये विहितानां महायज्ञानामनुवादो विशेषाभिधानार्थः । स च विशेष उत्तरत्र वक्ष्यते ( अग्रे २२ लो.) "अनीहमान" इति । अन्ये त मन्यन्ते । व्रताधिकारे पुनर्वचनं नियमसिद्धयर्थम् । तेनेदृशः सङ्कल्पः कर्तव्यो यावद्गार्हस्थ्यं मया महायज्ञा न हापयितव्याः । न त्वियमाशंका कर्तव्या द्विवचनं द्विविधानार्थम् । न ह्यत्र विधिः श्रूयते । केवलं न हापयेदित्युच्यते । नित्यत्वाच्च हानिः प्राप्तैव । अतो विहितप्रत्यभिज्ञानतः कश्चित् कर्मभेदहेतुरस्ति । यथाशक्ति पक्वान्नेन ग्रासेन वा मूलफलैर्वा ॥ २१ ॥
एतानेके महायज्ञान्यज्ञशास्त्रविदो जनाः ॥ अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ।। २२ ॥
एतान् महायज्ञान् एके यज्ञशास्त्राविदो गृहस्था इन्द्रियेष्वेव जुह्वति संपा दयन्ति । कतमे पुनस्ते अनीहमाना ये न चेच्छन्ति धनं त्यक्तगृहव्यापार देहसान्यासिकादयः । शिलोञ्छवृत्तेरप्येवं विधिमिच्छन्ति पङ्ग्वादीनां च; तेषां हि दारकरणं वक्ष्यति (अ. ९ श्लो. २०) “यद्यर्थिता तु दारैः स्यादिति । न चैतेषां पञ्चयज्ञाधिकारः । अद्रव्य
त्वाद्भरणमात्रं ते लभन्ते । नाधिकं कर्मानुष्ठानार्थमपि । जुहोतिः कगेत्यर्थनिर्वयंतां २० लक्षयति । न हि क्रियाविशेषो यागः क्रियाविशेषस्य होमस्य कर्मतां प्रतिपद्येत ।
न हि भवति पचति पाकमिति । भवति तु पाकं करोति यागं करोतीति । सामान्यविषयाकांक्षास्तु क्रिया द्रव्यकर्माणि साधनीकुर्वन्ति । इच्छति भोक्तुं शक्नोति भोक्तुं जानाति भोक्तुं दृष्टश्च विशेषः सामान्यलक्षणार्थः । अयं गौः पदा द्रष्टव्य इति । एवं
च होम केचिदिन्द्रियेषु तत्सङ्गममेव व्याचक्षते । अपरेषां प्राणसंवादोपनिषदि यद्यद्भक्तं २५ प्रथममागच्छेत्तद्धोमीयं सायंप्रथमाहुतिं जुहुयात्प्राणाय स्वाहेत्यादिना । अन्ये तु ।
य एवोत्तरश्लोके उपासनाविधिरुक्तः स एवायं होमः । तथा च तयोरेकवाक्यता प्रतीयते ।
१ फ-अविनिवेशः । २ अ-क-क्ष-जुहोति ।
For Private And Personal Use Only