SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। क्षणविरसता स्वभावश्च विनाशित्वं शास्त्रनिषेधाच्च सङ्गस्य नरकापात इत्येवमादि चिन्तयेत् । यथोक्तं ( अ. २ श्लो. ९६ ) " न तथैतानि शक्यंत " इति ॥ १६ ॥ सर्वान्परित्यजेदान् स्वाध्यायस्य विरोधिनः ॥ यथातथा यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ १७ ॥ ये वेदाभ्यासविरोधिनोऽर्थास्ते सर्वे त्यक्तव्याः राजामात्यगृहोपस्थानादयः ५ येऽप्यनया लोकयात्रया सक्तस्य कृषिकुसीदाद्यधिकलामा भवन्ति तेन च पोषयिष्यते । तदा कुटुम्बविभवतश्च दासीदासं बहु भविष्यतीति सा ह्यस्य स्नातकस्य कृतकृत्यता कृतार्थता । यं नित्यस्वाध्यायी यथाकथंचित्कुटुम्बकं जीवयतीति ॥ १७ ॥ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ॥ वेषवाग्बुद्धिसारूप्यमाचरन्विचरेदिह ॥ १८ ॥ वयस इति सारूप्यापेक्षा षष्ठी । वेषवाक्बुद्धीति समाहारे द्वन्द्वः । सारूप्यमिति स्वार्थे प्यञ् । तेनायमर्थो भवति । वयाधुचिता वेषादयः कर्तव्याः । सारूप्यमौचित्यमन्यस्याकृत्यादेः सादृश्यासंभवात् । वेषः केशाभरणादिविन्यासः । तत्र प्रथमे वयसि शिखण्डकः, यौवने कौन्तलादिधारणं, वार्धके जटामुण्डनादि । वयोनुरूपा वाक् । एवं बुद्धिस्त्रिवर्गानुष्ठानधारणम् प्रथमं नीयते केवलं धर्मप्रधानकर्मानुरूपो वेषः अर्थानुरूपतः । १५ तेन हि भवितव्यं कुलानुरूपेण दशनरागधम्मिल्लादि उद्धतमपि नौद्धत्यमावहति । तदुक्तं " अस्य लोकव्यवहारो विषय " इति । एतदुक्तं भवति । नायं विध्यर्थः अपरैनिश्चितार्थत्वात् । लोकव्यवहारमूलस्त्वयमनुवादः । एवं वर्तमानो लोकवृत्तानुवर्ती भवति । न लोकद्वेष्यतामेति ॥ १८ ॥ बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ॥ नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ १९ ॥ बुद्धिद्धिकराणीतिहासपुराणानि तर्कशास्त्राणि बार्हस्पत्योशनसादीनि हितानि उपकारकाणि दृष्टार्थानि वैद्यकज्योतिषादीनि अर्थशास्त्रस्य पृथगुपदेशात् । वैदिका निगमा वेदार्थज्ञानहेतवो निगमनिरुक्तव्याकरणमीमांसारुढिग्रहणे त्वदृष्टार्थता स्यात् ॥ १९ ॥ *यथायथा हि पुरुषः शास्त्रं समधिगच्छति ॥ तथातथा विजानाति विज्ञानं चास्य रोचते ॥ २० ॥ १ फ-वैद्यभ्यासबिरोधिनो । २ फ-वयं आधुचिंत ३ फ-न उद्धत्यमावहति । [ शास्त्रस्य पारं गत्वा तु भूयोभूयस्तदभ्यसेत् ॥ तच्छास्त्रं शवलं कुर्यान्न चाधीत्य त्यजेत्पुनः १॥ ? ] २० २६ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy