________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
३०७ मग्निहोत्रमात्रं धर्मो न वैश्वदेवहोमः । भवतु वा । यस्यास्तहि धनं नास्ति कथं जीवतु तस्माद्यस्यासमर्था भार्या नासौ शिलोच्छवृत्तावधिक्रियते । वर्तयन्नात्मानं जीवयन् ॥ १० ॥
न लोकवृत्तं वर्तेत वृत्तिहेतोः कथंचन ॥
अजिह्मामशठां शुद्धा जीवेद्राह्मणजीविकाम् ॥ ११ ॥ लोकवृत्तं नामोच्यते येन प्राकृतजनोऽल्पसत्वो वर्तते, दम्भेनासत्प्रियाख्यानेन च ५ 'त्वं विष्णुस्त्वं ब्रह्मा जय जीवेति ' तथा विचित्रपरिहासकथाभिः । वृत्तिहेतो विकार्थतया न कर्तव्यमेतत् । यस्तु नर्मशीलस्तस्य न दोषः । अजिह्माम् यस्यान्यच्च हृदयेऽन्यच्च बहिः स निम उच्यते द्वेषमत्सरात्मा दर्शयत्यप्रियं वदताम् । अशठाम् अग्निहोत्रकर्मानुष्ठानं लोकार्जनेन प्रतिग्रहादिलाभाथै न शास्त्रार्थश्रद्दधानतया कुर्यात्स शठः । आत्मधर्मत्वेऽपि जैहृयशाठयो विकाऽप्यभेदोपचाराव्यपदिश्यते । ' अनिझामशठां १० शुद्धामिति' । शुद्धिवृत्त्यन्तरेणामिश्रीकरणं पूर्वदोषद्वयेन च एकपदलभ्योऽप्ययमों वृत्तानुरोधागोबलीवर्दवद्वहुपदैः प्रतिपाद्यते । अथ कथं ब्राह्मणजीविकां जीवेदिति द्वितीया यावता जीवतिरकर्मकः । कथं चैकस्यैव धातोरेकत्र द्विप्रयोगः न हि भवति गमनं गच्छेदिति साध्यसाधनभावः । उच्यते । सामान्यविशेषभावात्साध्यसाधनभावो न विरुद्धः । यथाऽश्वपोषं पुष्ट इति । अनुष्ठानाङ्गे वर्तनार्थे जीवतिर्वर्तते । तेन सकर्मकत्व- १५ मिति न दोषः । जीवेज्जीवनार्थमनुतिष्ठेत् ॥ ११ ॥
संतोषं परमास्थाय सुखार्थी संयतो भवेत् ॥
संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ १२ ॥ व्यहैहिकाश्वस्तनवृत्तिदाढ्यार्थ प्रसंख्यानमिदमाह । सन्तोप आश्रयितव्यो । न बहूना. मुपजीव्यः स्यामिति याञ्चाक्लेश आस्थेयः । सुखार्थी संयतो भवेत् । संयमो यात्रिका- २० द्धनादधिके नाभिलाषः । सन्तोषो मनस्विनां सुखमूलं दुःखस्य मूलं विपर्ययः असन्तोषो महद्विदुषां दैन्यं अभिलषिते वस्तुन्यसंपत्तिस्तस्मात्सन्तोषमाश्रयेत् ॥ १२ ॥
अतोऽन्यतमया वृत्या जीवस्तु स्नातको द्विजः ॥
स्वायुष्ययशस्यानि व्रतानीमानि धारयेत् ॥ १३ ॥ वृत्तिविषयो विधिवृत्तिशब्देनोक्तः । तेनान्यतमयति तदपेक्षमेकजीवितं अन्यतमेन २५ निवृत्तिविधानात् । अतो वृत्तिसमुच्चयजीविनः पितृधनं प्राप्तवतश्च व्रताधिकारो न युज्यते ।
1 रण-जपेत् । २ फ-लोकावर्जनेन । ३ रण-चस्वार्थे ४ रण-असंतोषं । ५ फ-जीवनः ।
For Private And Personal Use Only