________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३०६
मेधातिथिभाष्यसमलंकृता ।
[ चतुर्थः
षाण्मासिक वृत्तिरेव स्यान्नाश्वस्तनिकः अथान्यथाऽपि संभवति यावतस्तावतो व्रीह्यादेः कथंचित्पतितस्योपादानम् । सत्यम् । न तद्भोजनाय पर्याप्तम् । संचिन्वानो 1 यदा पर्याप्तं प्राप्स्यति चेदशिष्यति पञ्चाहार्द्यसंभवात् । तथा च महाभारते शिलोञ्छवृत्तिः पक्षान्ताशनो वर्ण्यते । सोऽयमस्यामवस्थायां गृहस्थस्तापसः संवृत्त इति चेत् । किंत्वेवमप्यश्वस्तनिकत्वं विरुध्यते । यथोपपादास्थिति कस्तदा स्यान्नाश्वस्तनिकः । अश्वस्तनिक ह्युच्यते य अहन्यहन्यर्जयति यात्रिकं तदहरेव च व्ययीकरोति । न द्वितीयेऽह्नि स्थापयति ।
Acharya Shri Kailassagarsuri Gyanmandir
यदि च न प्रत्यहं शिलोच्छवृत्तेर्भोजनं निवर्तते । कुतोऽश्वस्तनिको भवेत् । कथं च तथाविधस्य जीवनं पुत्रदारभरणं च । अत एव केचित्रिभिरन्यः प्रवर्तत इत्यत आरम्यान्यथा व्याचक्षते । त्रिभिर्याजनाध्यापनप्रतिग्रहैर्द्वाभ्यां " प्रतिग्रहः प्रत्यवर " इति १० प्रतिग्रहव्युदासेन याजनाध्यापने प्रतिगृह्येते । ब्रह्मसत्रमध्यापनं तद्वि वृत्तये पर्याप्तम् । यत्तु “ वर्तयंश्च शिलोञ्छाभ्यामिति " स चतुष्टयव्यतिरिक्तोऽन्य एव । अत्रोच्यते । यः शिलपरिमाणान्दशद्वादशान्यवान्त्रीहीन्या वहुभ्य आदत्ते यावदेकाह्या त्रिकं स शिलवृत्तिः । यस्त्वेकैकं यात्रार्थमाहरति स उच्छवृत्तिः । स्मृत्यन्तरे चायं ज्यायान्वरवृत्तिरुक्तः । अतश्च सार्वकालिकमप्युपपद्यते । न च वैश्वदेवादिक्रियाविरोधः तत्र पुत्रदाराणामभरणभेदश्च ११ याचित भैक्षादत्यन्ताल्पग्रहणात् ॥ ९ ॥
वर्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः ॥
इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा ॥ १० ॥
पर्व चायनान्तश्च तयोर्भवाः पार्वायणान्तीयाः । स्वार्थिकमणं कृत्वा वृद्धाच्छः ( व्या, सू. ४ । २ । ११४ ) कर्तव्यः । पर्वेष्टिदर्शपूर्णमासौ अयनांते च यज्ञ २० आग्रयणाख्यः । केवलग्रहणात्काम्या इष्टयो निषिध्यन्ते । वैश्वदेवहोमबलिहरणेऽपि तस्य नान्वहं भवतः । न हि तस्य सर्वदा तावद्धनं भवति । अतः केवलग्रहणान्महायज्ञनिवृत्तिः । ननु चाग्निहोत्रमपि तत्तस्य नैव भवति । तदपि द्रव्यसाध्यमेव । पक्षहोमान्होष्यति । भार्याभरणं कथमिति चेत्साऽपि तां वृत्तिमाश्रयिष्यति । यदा च भार्याव्रतमेतद्वारयितुमशक्ता तदा भर्तुरपि नास्त्यधिकारः । अथ चान्द्रायणादिषु प्रवृत्तस्य कथं २५ भार्याया जीवनमिति चेत् । अचोद्यमेतद्विद्यमानत्वात् । अतिथ्यादिशिष्टमशिष्यत इति तु वैश्वदेवहोमाभावात् । विद्यमानेऽपि स्त्रीधने न भोजनं युक्तमुभयोर्विवसाशित्वविधानात् । अतः स्त्रीधनेन वैश्वदेवं करिष्यति धर्म कार्येऽनुज्ञानात्स्त्रीधनग्रहणस्य । नैवम् । तस्यामवस्थाया
१ रण - पञ्चाहान्यासम्भवाद्दशाहान्यासंभवात् । २ फ-यथोपयादिक । ३ फ-पार्वायनान्तीयाः । ४ र-तस्या । ५ फ- अस्याम् ।
For Private And Personal Use Only