SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः मनुस्मृतिः। ३०५ यो यः स्वल्पकालसंचयः स स धमैायानधिकः । धर्माधिक्याच्च फलाधिक्यं भवति । लोकजित्तमः । लोकाञ्जयत्याधिपत्येनावतिष्ठते । भोग्यतया स्वीकरोति । प्रकविवक्षायां तमः । अविशेषोपादानालोकः स्वर्गः प्रतीयते । तेनेयमत्र व्यवस्थामाह । परिग्रहो यो बह्वपत्योऽप्राप्तपुत्रोऽसंविभक्तपुत्रः अकृतकन्याविवाहश्च स कुसूलधान्यकः । यस्तु परिणतत्रयाः प्राप्तपुत्रः कृतकरणः स विद्यावच्छममेति तावत्तावदितरान्कल्पा- ५ नाश्रयेत् ॥ ८॥ षट्कमैको भवत्येषां त्रिभिरन्यः प्रवर्तते ॥ द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥९॥ एषां कुसूलधान्यकादीनां गृहस्थानामेकः षट्कर्मा भवति । यो महापरिग्रहः प्रागुक्तस्तस्य षड्वृत्तिकर्माणि भवन्ति । कानि पुनस्तानि उञ्छशिलायाचितयाचितलाभ. १० कृषिवाणिज्याध्यापनयाजनप्रतिग्रहाः याचितायाचितग्रहणादन्तर्भवन्ति । बहुकुटुम्बको नित्यकर्मसंपत्त्यर्थं च सर्वा वृत्तीः समुचिताः कुर्यात् । कृषिवाणिज्ये अपि येऽप्यध्यापनमध्ययनमित्यादीनि प्रथमाध्यायपठितानि षटकर्माणि व्याचक्षते तेषां प्रकरणविरोधो निष्प्रयोजनं वाऽध्ययनादीनामुपादानमन्यत्रैव तेषां विहितत्वात् । ____ अन्यो द्वितीयः कुम्भीधान्यस्त्रिभिः प्रवर्तते । प्रोऽनर्थको यावद्वतते तावत्प्रवर्तते १५ इति वर्तनं च स्थितिसंपत्तिः प्रकृतानां च यानि कानिचित् कचित् कृषिवाणिज्ये विहाय प्रशस्ततरो हि पूर्वस्मात्कुम्भीधान्यको यतो वक्ष्यति सा वृत्तिः सद्विगर्हिता । " गोरक्षकान्वाणिनिकानिति । यदप्युक्तं गौतमेन (अ. १० स. ५-६) “कृषिवाणिज्ये वाऽस्वयं कृते कुसौदं चेत्यनापद्येव तत्राप्यस्वयंकरणपक्षे दोषोऽस्त्येव लघीयांस्तु भविष्यति । द्वाभ्यामेकः । अत्रापि याचितलाभं वर्जयित्वा त्रयाणां यथासंभवं द्वे गृह्यते । २० अयाचितमपि तावद्गृह्यते यावत्र्यहपर्याप्तम् । चतुर्थस्तु ब्रह्मसत्रेण जीवति । ब्रह्मसत्रं शिलोच्छयोरन्यतरा वृत्तिः । सततभवत्वात्सत्रमिव न तदहःपरिसमापनीया वृत्तिरतः सत्रमित्युच्यते अहरहनित्यमनुष्ठानात् । ब्रह्मशब्दो ब्राह्मणपर्यायस्तेषामिदं सत्रम् । अस्माद्ब्रह्मशब्ात्पूर्वोऽयं वृत्तिप्रपञ्चो ब्राह्मणविषय एव विज्ञेयः । क्षत्रियादीनां तु तत्र वक्ष्यति । ___कथं पुनः शिलोच्छवृत्त्या जीवनं संभवति यावता शरद्रीष्मयोरेव क्षेत्रे खले वा शिलपुलाकपातसंभवः । अथोच्यते । ग्रैष्मेभ्यो ग्रैष्माणि शारदानि शारदेभ्योऽर्जयिष्यतीति १फ-व्यवस्था । महापरिग्रहो। २फ-यावत्-तावत् । ३ अ-प्रकृतानि ।। श्लो.८८ । ५ फ-पवर्तते। ६ अ. ८ श्लो. १०२ । ७ फ-प्रीष्मेभ्यो । ३९ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy