________________
Shri Mahavir Jain Aradhana Kendra
३०४
१०
२०
www. kobatirth.org
२५
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ॥ सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ॥ ६ ॥
नैषं तव्यं सत्यानृतोभयरूपता शास्त्रेण वाणिज्येऽभ्यनुज्ञायत इति । किंतर्हि “वस्तुस्वभाववादीऽयं, लोभग्रहणमेवानृतं जीव्यत इतिवचनाद्वाणिज्या जीवनायैव न धनसेवातिर्यथा हि वा प्रेर्यते कृच्छ्रेण च लभते तथा च सेवकः सेवा त्वं प्रेष्यते उचितेऽनुचिते वा स सेवकः । अत उत्कृष्टेनायुधकर्मादिना ये समानमुपसर्पन्ति ते न श्ववृत्तयः ॥ ६ ॥
कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा ॥ त्र्यहैहिको वाऽपि भवेदश्वस्तनिक एव वा ॥ ७ ॥
कुसूले धान्यमस्येति गमकत्वाद्वयधिकरगो बहुव्रीहिः । पाठान्तरं कुशूलधान्यक इति । कुसूलपरिमितं धान्यं कुसलधान्यं तदस्यास्तीति मत्वर्थीय इक् शब्दः । धान्याधिकरणमिष्टकादिकृतम् । कुसूलः कोष्ठ इति चोच्यते । तेन चात्रापरिमाणं लक्ष्यते । १५ तत्र यावन्माति तावत्संचेतव्यम् । न पुनराधारनियमोऽस्ति । कुसूले च महापरिग्रहणस्यापि बहुभृत्यबन्धुदारदासपुत्र गवाश्वादिमतोऽपि यावता सांवत्सरी स्थितिर्भवति तावदनुज्ञायते । यतो वक्ष्यति ( अ. ११ श्लो. ७ यस्य त्रैवार्षिकं भक्तमिति " धान्यग्रहणमप्यविवक्षितम् । सुवर्णरूप्याद्यपि तावत्याः स्थितेः पर्याप्तमर्जयतो न दोषः । सर्वथाऽधिकं ततो नार्जनीयमिति वाक्यार्थः ।
66
[ चतुर्थः
उक्तमात्मकुटुम्बस्थित्यै धनसंचयः कार्यो न भोगाय क्लेश आश्रयणीयः । तत्तु किमन्त्रहमर्जनीयं उतैकदैव चिरकालपर्याप्तमिति नोक्तम् । तत्र कालविलम्बार्थमिदमारभ्यते ।
कुम्भी उष्ट्रिका षण्मासिको निचय एतेन प्रतिपाद्यत इति स्मरन्ति त्र्यहमै - हिकमस्येति यद्दैहिकः कुटुम्बस्य नित्यकर्मार्थं च भक्तचयं करोति यः स त्र्यहैहिकः । श्वो भवं श्वस्तनं भक्तं तदस्यास्तीति पूर्ववत् मत्वर्थीयं कृत्वा नञ् समासः कर्तव्यः । सद्यस्तात्कालिको भवेत्तदहरर्जितं व्ययीकर्तव्यम् ॥ ७ ॥
अस्य विकल्पस्य व्यवस्था माह
चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् ॥ ज्यायान्परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ ८॥
१ अ क - ज्ञायते । २ण - त्र्यहैहिके । ३ फ- उक्त । ४ ड-धान्यिक । ५ र तथा ।
For Private And Personal Use Only