________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०३
भध्यायः]
मनुस्मृतिः। याचितमित्येव सिद्धे भैक्षशब्देन सामूहिकतद्धितान्तेन बहवो याचितव्या इत्युच्यते । नैकः कदर्थनीयस्तदुक्तम् “अल्पद्रोहेणेति” । प्रायेण च भैक्षशब्दस्य भक्ष्यस्यात्मविशुद्धयर्थमित्येवमादौ सिद्धान्नविषये प्रयोगसिद्धेः सामान्यविषयार्थ याचितशब्दोपादानम् । तेन नेदं सिद्धान्नभिक्षणमेव । अग्निमतः पराग्निपक्वेन वैश्वदेवादिविरोधात् । न चेदं भोजनार्थमेव भिक्षणम् । किंतर्हि ? स्थित्यर्थम् । स्थितिश्च न भोजनमात्रसाध्या गृह- ५ स्थस्य । किंतर्हि ? । यत्किंचिद्गृहोपयोगि । अत एवोदकपरिधानाद्यपि भिक्षितव्यम् । गृहोपकरणं च स्थाल्यपिधानादि । ब्रह्मचारिणस्तु भोजनकाले विधिना पाकासंभवान्नियमतः सिद्धान्नविषयं भक्ष्यं प्रतीयते । भिक्षाशब्दश्चायं भिक्ष्यमाणद्रव्यगतं परिमाणमप्याचष्टे । भिक्षामात्रं न ददाति याचितः । प्रसृतिमात्रं भिक्षेति तेन गोहिरण्यादिभिक्षणं न प्रसृतशब्देनाभ्यनुज्ञायते । प्रतिग्रहाद्यर्था याञ्चेति ।
ननु भैक्षग्रहणमपि प्रतिग्रह एव । नैवं ग्रहणमात्रं प्रतिग्रहः । विशिष्ट एव स्वीकारे प्रतिपूर्वो गृण्हातिर्वर्तते तेन न स्वीकारमात्रे " प्रतिग्रहसमर्थोऽपि " (अ. ४ श्लो. १८६) " प्रतिग्रहः प्रत्यवरः' इति (अ. १० श्लो. १०९) । अदृष्टबुद्ध्या दीयमानं मन्त्रपूर्व गृह्णतः प्रतिग्रहो भवति। न च भैक्षे ' देवस्य त्वादि । मन्त्रोच्चारणमस्ति । न च प्रीत्यादिना दानग्रहणे न च तत्र प्रतिग्रहव्यवहारः । अतः प्रतिग्रहादर्थान्तरमेवेदमृतामृतशब्दाभि- १५ धेयम् । अतश्च नात्र याच्यमानस्य अयाच्यमानस्य वा महासत्वतया उपकारान्तरापेक्षा जायते येन वा ददतो जात्याद्यपेक्षा युक्तिमता प्रतिग्राह्यस्यैव करुणया च प्रदीयमानं गृह्णतो न प्रतिग्रहः ।
ननु च करुणया दानमदृष्टायैव नेति ब्रूमः । न च तत्र दानधर्मः । किंतर्हि करुणाभ्यासात्परोपकाराद्वा । तत्र यथा हितोपदेशादावनुग्राह्यस्य । यथा विधिर्जात्यादि पेक्षते २० तद्वत्करुणया दाने । तथा च शिष्टा नैवंविधे दाने वेदतत्वार्थविदुषे ब्राह्मणायेत्येतदनुरुध्यन्ते । अत एवाब्राह्मणा अपि दैन्यमापन्नाः परेण दत्तं गृण्हाना न ब्राह्मणवृत्तं प्रतिग्रहमाश्रिता भवन्ति । स्थितमेतत् । प्रतिग्रहे यद्यपि याचितायाचितपूर्वकत्वं विद्यते तथापि न तेनैवं मृतामृतशब्दार्थः । विषयान्तरस्य दर्शितत्वात् । याजनाध्यापनयोरप्येतद्रूपमस्ति । कश्चिद्याजयित्वा याजकत्वं लभते । कश्चित्प्रार्थ्यते । एवमध्यापने योज्यम् । २५ अतो यावता काचिद्वृत्तिर्याच्या या सा दैन्यावहत्वात् मरणमिवेति मृतशब्देनाभिधीयते । कर्षणं तु मरणादपि पापीयः । लाङ्गलाकर्षणं हि भारवाहत्वं तच्च खलननपदकर्म ॥ ५॥
१ उपरि २ श्लोके । २ रण-तानेवत्वं ! ३ अक-याचित्वा याचकाविद्यते ।
For Private And Personal Use Only