SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ मेधातिथिभाष्यसमलंकृता। [चतुर्थः च गौतमः (अ. १० सू. ५) " कृषिवाणिज्ये वा स्वयं कृते कुसदिं च"। जीवनमात्रोऽयं विधिर्धनसंचयस्तु वक्ष्यमाणैरेव नियतैः कर्मभिः ॥ २ ॥ यात्रामात्रप्रसिद्धयर्थं स्वैः कर्मभिरगर्हितैः ॥ अक्लेशेन शरीरस्य कुर्वीत धनसंचयम् ॥ ३ ॥ पूर्वेणान्वाहिकजीवनविधावुपाय उक्तोऽनेन धनसञ्चये नियम उपदिश्यते । स्वैः कभिः धनसंचयं कुर्यात् । तानि च कर्माण्युत्तरत्र वक्ष्यन्ते । संचयप्रयोजनमाह । यात्रामात्रप्रसिध्यर्थं न भोगाय धनसंचयक्लेशः कर्तव्यः । किंतर्हि यात्रामात्रप्रसिद्धयर्थम् । आत्मकुटुंबस्थितिर्यात्रा तत्परिमाणं यात्रामात्रं तस्य प्रसिद्धिनिष्पत्तिः तदर्थस्तत्प्रयोजनं नित्यकर्मनिवृत्तिरात्मस्थितावेवान्तर्भूतानि न ह्यकुर्वत आत्मस्थितिः। आह च (अ. ३ श्लो. ७२) " न निर्वपति पञ्चानामुच्चसन्न स जीवति " । अथवा सत्यपि शास्त्रीयत्वे यत्र लोके गैर्हते तद्वयमेव । यथा नरस्य महाकुलीनस्य भुक्तविभवस्य निकृष्टकुलात्प्राप्तश्रीकात् समानजातीयादपि प्रतिग्रहादिना केनचिदुपायेन जीवनम् । अक्लेशेन शरीरस्य सेवावाणिज्ये महाक्लेशे दूराध्वगमनादिना तादृशे न कर्तव्येः। संचयो राशीकृतपरिरक्षणम् ॥ ३ ॥ ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा ॥ सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ४ ॥ तानीदोनी कर्माणि नामतस्तावदाह । नाम्नैव केषांचित् स्तुतिः प्रतीयते । प्रयोजनं वा प्रशस्ताभावे निन्दितेषु प्रवृत्तिः । तत्र मृतप्रमृते अत्यन्तनिन्दिते । ततोऽपि सत्यानृतं यत आह तेनैव वाऽपि जीव्यत इति । अपिशब्द अरुचिस्तवनार्थः ॥ ४ ॥ नामतो निर्दिश्य स्वरूपतो व्याचष्टे । ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ॥ मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ ५॥ उञ्छश्च शिलश्च उञ्छशिलं तहतं ज्ञेयम् । सत्यव्रततुल्यं क्षेत्रालूनस्य व्रीह्यादे. गुहं खलं वा नीयमानस्य यः पुलांकः पतितः स्वामिनोऽनपेक्षितस्तस्योच्चयनमुञ्छस्तदृतम् । न तत्रेयं बुद्धिराधेया । परकीयमेतन्न गृह्णामीति । २५ एवं च स्वत्वात्परिभ्रष्टस्य लूनस्यालूनस्य वाऽनेकप्ररोहवतो ग्रहणं शिलः । ____अमृतं स्यादयाचितम् । अत्यन्तप्रीतिकरत्वात् । मृतमिव याचितम् भौक्षितमिति । १ अ क-यात्रामात्रा । २ फ-गहते । ३ ख-न कर्तव्यः । ४ अ क र ण कथचंन । ५ फ-तानि कर्माणि । ६ फ-स्थितिः । ७ अ क-पुलकः । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy