SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्री॥ ॥ श्रीगणेशाय नमः॥ ॥ अथ चतुर्थाध्यायप्रारम्भः॥ चतुर्थमायुषो भागमुषित्वाऽऽयं गुरौ द्विजः ॥ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ १ ॥ संक्षेपेणातिक्रान्तस्याध्यायद्वयस्यार्थं कथयत्यनुस्मरणाय । गार्हस्थ्यधर्मस्यायं वृत्तिविधिरिति द्वितीयं श्लोकप्रयोजनम् । अनियतपरिमाणत्वादायुषश्चतुर्थभागव्यवस्थाविधानमाश्रमिणामनुपपन्नमतः श्लोकोऽयं विहिताश्रमकालानुवादार्थः । यद्यपि च " शतायुर्वं पुरुष " इत्येतदपेक्षया कथंचिदुपपद्येतापि तथापि स्वप्रकरणे ग्रहणान्तिकमिति १० अवध्यन्तरस्य ब्रह्मचर्यविहितत्वात् । “ गृहस्थस्तु यदा पंश्येत्” इति गार्हस्थ्येऽपि कालान्तरप्रतिपत्तेरनुवादतैवानुमीयते । चतुर्थमाघमायुषो भागं जन्मापेक्षमाद्यत्वं गुरौ उषित्वा ब्रह्मचर्यं कृत्वा ततो द्वितीयं चतुर्थमायुषो भागं कृतविवाहो गृहे वसेत् । गृहस्थाश्रममनुतिष्ठेत् । तत्र वसेत् ॥ १ ॥ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ॥ या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ २ ॥ ' देहि देहीति । याच्यमानस्य यः परस्य चित्तविकारः खेदात्मको जायते स द्रोहोऽभिप्रेतो न पुनर्हिसैव तस्याः सर्वसामान्येनैव प्रतिषेधात् । अल्पद्रोहेणेति । याच्या विना यदि न वर्त्यते तदा स्वल्पं याचितव्यम् । एषोऽल्पद्रोहो यावृत्ति वनोपायः कृषिसेवादि । यस्यां वृत्तौ परस्य पीडा न भवति सा आश्रयितव्या । सामान्योप- २० देशोऽयम् । समास्थाय आश्रित्य जीवेत् । आपदि दशमे विधिर्भविष्यति । अस्माच्चोपदेशाद्वक्ष्यमाणाभ्य इत्यादिवृत्तिर्भवतीति गम्यते । अन्यथा वक्ष्यमाणविशेषनिष्ठत्वे सामान्यैरस्योपदेशस्यानर्थक्यमेव स्यात् । तेन च याजनाध्यापने कुसीदं अमृतादिमध्ये अपठितमपि लभ्यते । अल्पीयसी या उञ्छवृत्तिर्गृहीता असौ ह्यल्पद्रोहः । तथा १ अ. ६ श्लो. २ । फ-निष्ठत्व । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy