________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता।
[ तृतीयः स्मृत्यन्तरं " भुञ्जीत पितृसेवित " इति । श्राद्धाङ्गं चैतद्भोजनं केचिदाहुः । अन्ये तु पुरुषार्थो भोजननियमोऽयमित्याहुः । ' वसून्वदन्ती'त्यनेनैव श्राद्धप्रकरणस्याप्रवृत्तत्वात् । यज्ञशेष यज्ञोपयुक्तद्रव्यशेषमिति द्रष्टव्यम् ॥ २८५ ॥
एतद्वोऽभिहितं सर्व विधानं पाश्चयज्ञिकम् ॥
द्विनातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ २८६ ॥ इति मानवे धर्मशास्त्रे भृगुणोक्तायां संहितायां तृतीयोऽध्यायः ॥३॥
___ पूर्व हि व्यवहितस्य पाञ्चयज्ञिकमिति महायज्ञविधेरुपसंहारो माङ्गलिकतयैव उत्तरेण श्लोकार्थेन वक्ष्यमाणाध्यायार्थैकदेशोपन्यासोपगते चोक्तप्रयोजनानि । द्विजाति
मुख्या ब्राह्मणास्तेषां वृत्तयो जीविकाः कर्माणि । द्विनातीनां वा मुख्यवृत्तय इति । १० उत्तरत्रैव दर्शयिष्याम इति प्रसिद्धम् ॥ २८६ ॥
मान्या काऽपि मनुस्मृतिस्तदुचिता व्याख्या हि मेधातिथेः ।
सा लुप्तैव विधर्वशात्वचिदपि प्राप्यं न यत्पुस्तकम् ॥ क्षोणीन्द्रो मदनः सहारणसुतो देशान्तरादात्हतैजीर्णोद्धारमचीकरत्तत इतस्स्तत्पुस्तकैलेखितैः ॥ १ ॥
शुभं भवतु ॥ इतिश्रीभट्टवीरस्वामिसूनोभट्टमेधातिथिस्वामिनः कृतौ मनुभाष्ये
तृतीयोऽध्यायः समाप्तः ॥ ३ ॥
अनमो भगवते विश्वेश्वराय ।
१फ-अपवृत्तत्वात् । २ र- उपन्यातं, । तौ चोह्मप्रयोजनौ।
For Private And Personal Use Only