SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९८ मेधातिथिभाष्यसमलंकृता । [ तृतीयः ननु चापराह्ने विधानात्कुतो राज्यादिषु प्राप्तिः । अथ मतं विशेषवचनेनान्यत्राप्यस्तीति ज्ञापितं सत्यम् । “ पूर्वाह्लादर्पराह्नो विशिष्यत " इति यदपेक्षं विशेषवचनं तत्रैवास्तीति सामान्यज्ञानं प्रवर्तते । तेन पूर्वाह्न एव कदाचित्तस्यान्य उत्तरकाल इति केचिदाहुः " ग्रहणं चन्द्रसूर्ययोरिति ” चन्द्रग्रहादिषु राज्यादानपि प्राप्तस्तन्निषेधार्थम् । अतश्व सन्ध्यायां चन्द्रसूर्ययोरुपरागेण रात्रौ चन्द्रग्रहणे प्रतिषेधाविधानाद्विकल्पः। अन्ये त्वाहुः मध्याह्नकालः पूर्वाह्नापराह्णाभ्यामन्यस्तत्राप्येतेन प्रतिषेधेन कर्तव्यमिति ज्ञाप्यते । सूर्ये चैव पूर्वाह्नकालत्वात्प्रथमोदिते सूर्य प्रतिषेधः । राक्षसीत्यर्थवादः॥२८०। अनेन विधिना श्राद्धं त्रिरब्दस्येह निर्वपेत् ॥ हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥ २८१ ॥ पूर्वोक्तेन विधिना इतिकर्तव्यताकलापेन पूर्वेद्युनिमन्त्रणादिभिः संवत्सरस्य त्रिः श्राद्धं कुर्वीत । केषु मासेष्वित्यत आह । हेमन्तग्रीष्मवर्षासु । मासानुमासिकमित्यस्य त्रिः संवत्सरविधिर्वैकल्पिकः । पाश्चयज्ञिकः पञ्चमहायज्ञमध्ये यः पठितः सोऽन्वहं कर्तव्यः । अस्य च प्राचीनावीत्यपसव्योदङ्मुखब्राह्मणभोजनमित्येतावत्येवेतिकर्तव्यता । एवमर्थमेव पुनरुपन्यासः । एवं त्रिःसंवत्सरविधिरनाहिताग्नेरित्येवं पूर्व व्याचक्षते । प्रमाणं तु १५ त एव विदंति ॥ २८१॥ न पैतृयज्ञियो होमो लौकिकेऽनौ विधीयते ॥ न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ २८२ ॥ पितृयज्ञाङ्गभूतो होमः पैंतयज्ञिकः स लौकिके स्मार्तेऽग्नौ न विधीयते । शास्त्रेण कर्तव्यतया न चोद्यते । तस्मात्रिः संवत्सरस्यानाहिताग्निना कर्तव्यम् । यद्यपि त्रिःकृतमपि भवत्येव कृतं लौकिकेऽग्नौ तथापि संवत्सरापेक्षया अकृतमेव तद्भवति । प्रस्थमोजनो हि न्यूने भुक्ते भवंति वक्तारो नास्माभिरत्यभुक्तमिति । अर्थवादतया पूर्वशेषमिदं पूर्व व्याचक्षते । इदं तु युक्तम् । यल्लौकिकोऽग्निर्विवाहादावपरिगृहीतस्तस्मिन् श्राद्धाङ्गभूतो होमो न कर्तव्य इत्युच्यते । होमप्रतिषेधेन च तव्यतिरिक्तमन्यत्कर्म कर्तव्यमित्युक्तं भवति । २५ इतरथा परिगृहीतोग्नेमस्य पार्वणश्राद्धाङ्गत्वेन विधानादनग्निकस्य श्राद्धानधिकार एव स्यात् । यथाऽन्धस्याज्यावेक्षणाशक्या दर्शपौर्णमासयोरनधिकारः । अस्मिंस्तु सति साग्निकस्य होमवत् श्राद्धम् अनग्निकस्य तद्वर्जितमपि ज्ञापितं भवति । तथा च "अग्न्यभावे" ( अ. ३ श्लो. २१२ ) इत्यस्यायमेव विषयः १ श्लो. २७८ । २ र-पैतृकयज्ञिको । ३ इदंत्व युक्रम्। ४ फ-यदि । ५ फ-परिगृहीतान्यपि। ६फ-न For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy