________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२९७ दशम्यादीनां वचनात्फलातिशयोत्पत्तिः । अन्यास्वपि तु सत्यां श्रद्धायां कर्तव्यम् । चतुर्दश्यां तु निषेध एव ॥ २७६ ॥
युक्षु कुर्वन् दिनह्वेषु सर्वान्कामान्समश्नुते ॥
अयुक्षु तु पितॄन्सर्वान्प्रजा प्रामोति पुष्कलाम् ॥ २७७ ॥ युञ्जिदिनानि द्वितीयाचतुर्थ्यादीनि । ऋशं नक्षत्रं तानि भरण्यादीनि युञ्जि भवन्ति । ५ प्रतिपत्तृतीयापञ्चमीसप्तमीनवम्यस्तिथयोऽयुज उच्यन्ते । द्वितीयाचतुर्थीषष्ठ्यष्टमीदशम्यो युनः । एवमेकादश्ययुप्रभृतौ द्रष्टव्यं नक्षत्रेष्वपि । सर्वान् कामान् ते च कामा इतिहासपुराणयोर्भेदेनोपत्ताः । पुष्कलां प्रजा । धनविद्यावलपुरुषैः पुष्टा पुष्कला ॥ २७७ ॥
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते ॥
तथा श्राद्धस्य पूर्वाह्लादपराह्रा विशिष्यते ॥ २७८ ॥ पूर्वपक्षः शुक्लपक्षः अपरः कृष्णपक्षः चैत्रसिताद्या मासा इति । यर्था श्राद्धस्य शुक्लपक्षात् कृष्णपक्षो विशिष्यते प्रकृष्टफलदो भवति । तथा पूर्वाह्लादपराह्नो विशेषवचनात् पूर्वाह्नेऽपि कदाचित्कर्तव्यमेवेति प्रतीयते ।
___ननु च प्रसिद्धेन दृष्टान्तेन भवितव्यम् । न चापरपक्षस्य पूर्वपक्षाच्छाद्धं प्रति विशेष उक्तः । केचिदाहुः । 'कृष्णपक्षे दशम्यादावित्येतस्मात्प्रतीयते । एवं तु ब्रूमः । १५ " वचनानि त्वपूर्वत्वात् " इत्यनेन न्यायेनाप्रतिद्धस्य दृष्टान्तताऽस्तीति विधिरपि दृष्टान्तवचनादेव शक्योऽवगन्तुम् ॥ २७८ ॥
प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ॥
पिव्यमा निधनात्कार्य विधिवदर्भपाणिना ॥ २७९ ॥ यत्किचित्पित्र्यं तत्र कर्मण्ययं विधिः । पदार्थाः प्राग्व्याख्याताः । अतन्द्रिणा अन- २० लसेन श्रद्दधानेनेतियावत् । आ निधनादा मरणाद्यावज्जीविकोऽयं विधिरित्यर्थः। दर्भपाणिना । तदुक्तं “दर्भाः पवित्रमिति" । तद्रधितशीर्षकं दर्भमयं पवित्रमुच्यते ॥ २७९ ॥
* रात्रौ श्राद्धं न कुर्वात राक्षसी कीर्तिता हि सा॥ संध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते ॥ २८० ॥
१र-तथा । २ र-असिद्धस्य । २ अ. ३ श्लो. २५६ । * [ कुर्वन् प्रतिपदि श्राद्धं स्वरूपां लभते प्रजाम् ॥ कन्यकाश्च द्वितीयायां तृतीयायां तु वाजिनः ॥ १॥ पशून क्षुद्रांश्चतुर्थी तु पञ्चम्यां शोभनान्सुतान् ॥ षष्ट्या दूतमवाप्नोति सप्तम्यां लभते कृषिम् ॥२॥ अष्टम्यामपि वाणिज्यं लभते श्राद्धदो नरः ॥ नवम्यां वै चैकशफान् दशम्यां द्विऽऽखुरान् बहून् ॥ ३ ॥
एकादश्यां तथा रौप्यं ब्रह्मवर्चस्विनः सुतान् ॥ द्वादश्यां जातरूपं च रजतं कुप्यमेव च ॥४॥
ज्ञातिश्रेष्ठयं त्रयोदश्यां चतुर्दश्यां तु कुप्रजाः ॥ प्रीयन्त पितरश्चास्य ये च शस्त्रहता रणे ॥ ५॥ पक्षाद्यादिषु निर्दिष्टान्विपुलान्मनसः प्रियान् ॥ श्राद्धदः पञ्चदश्यां च सर्वान्कामान्समश्नुते ॥ ६ ॥
For Private And Personal Use Only