________________
Shri Mahavir Jain Aradhana Kendra
२९६
www. kobatirth.org
१०
मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः
मधु माक्षिकम् । सर्वत्रात्र प्रीत्यतिशयोत्पत्तिर्विवक्षिता । न तु यथाश्रुत एव कालः । तथाहि द्वादशवर्षाण्यकरणं स्यात्तत्र विरुध्येत " पित्र्र्न्यमा निधनात्कार्यमिति " ॥ २७२॥ यत्किञ्चिन्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ॥ तदप्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ २७३ ॥
-
यत्किंचिदन्नं मधुना संयुक्तम् । त्रयोदश्यां वर्षासु च मघासु चाधिकमिति । तदा च तदक्षयमेव । ऋतुनक्षत्रतिथीनां च समुच्चयः । आपस्तम्बवचनात्तु वर्षासु त्रयोदृश्यष्टमीदशमीष्वपि । मघासु चान्तरेणाविवक्षा । एवं ह स्माह “ मत्रासु चाधिकमिति ” ( २ । ८ । १९ । २० । ) ।। २७३॥
अपि नः स कुले भूयायो नो दद्यात्रयोदशीम् ॥ पायसं मधुसर्पि प्राक्छाये कुञ्जरस्य च ॥ २७४ ॥
प्रकृतां त्रयोदशीं वर्षादिगुणयुक्तामधिकृत्येदमुच्यते । एवं पितर आशासते । अस्माकं कुले भूयात्स तादृशो जायतां उत्कृष्टगुणः यः प्रागुक्तायां त्रयोदश्यामस्मभ्यं दद्यात्पायसं मधुसर्पिः संयुक्तम् । तथा कुञ्जरस्य हस्तिनः प्राकू छाये प्राच्यां दिशि गतायां छायायां अपराह्नेतरे काल इत्यर्थः । शेषेऽहनि हस्तिनो दीर्घा १५ प्राची छाया भवति । 'प्राक्च्छायां ' इति वा पाठ: । छायायां हि ब्राह्मणा भोज्यन्ते । अग्रिमं कर्म तु यद्यल्पत्वाच्छायायां न संभवति तद्देशान्तरे तत्समीपे कर्तव्यम् । अङ्गत्वा - त्सतिसंभवे तत्सर्वं गोपेतं प्रधानं हस्तिच्छायायामेव । यत्तु व्याचक्षते हो परागो हस्तिछायोच्यते हस्ती वै भूत्वा स्वर्भानुरासुरिरादित्यं तमसाविध्यद्विति तदयुक्तम् । तत्र हि गौणो हस्तिशब्दप्रयोगः | स्मृत्यन्तरे च पृथगेव हस्तिच्छाया ग्रह | परागादाम्नाता "हस्ति२० छाया ग्रहणं चन्द्रसूर्ययोरिति " ॥ २७४ ॥
ददाति विधिवत्सम्यक् श्रद्धासमन्वितः ॥ तत्तत्पितॄणां भवति परत्रानन्तमक्षयम् ॥ २७५ ॥
यद्यदिति वीप्सायां अप्रैतिषिद्धं सर्वमन्नमनुजानाति । विधिवत् सम्यक्शब्दानुवादः । श्रद्धासमन्वित इत्येतदत्र विधीयते । श्रद्धया दातव्यं तथादत्तमनन्तमक्षयं २५ भवति पितॄणां परलोके । अनन्तमिति वा कालावधिनिषेधः । अक्षयमिति मात्रयाव्ययाभावमाह । सर्वकालं भवति प्रभूतं च ॥ २७५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् || श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः ॥ २७६ ॥
१ अग्रे २७९ श्लोके । २ फ - राहूपरागो । ३ र अप्रसिद्धं ।
For Private And Personal Use Only