SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९५ अध्यायः मनुस्मृतिः। षण्मासांश्छागमांसेन पार्षतेन च सप्त वै॥ अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ २६९ ॥ * रुरुपृषतैणा मृगजातिविशेषवचनाः । रौरवेण पार्षतेन । ऐणेयेति विकारे तद्धितः ॥ २६९ ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ॥ शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ २७ ॥ वराहश्चारण्यसूकरः ॥ २७॥ संवत्सरे तु गव्येन पयसा पायसेन च ॥ वार्धाणसस्य मांसेन तृप्तिादशवार्षिकी ॥ २७१ ॥ श्रुतानुमितयोः श्रुतसंबन्धस्य बलीयस्त्वाद्गव्येन पयसेति संबन्धो न मांसेन १० प्राकरणिकेन । अन्ये तु चशब्दं समुच्चयार्थीयं पठित्वा व्याख्यानयन्ति । मांसेन गव्येन पयसा पायसेन वा । पयोविकारः पायसं दध्यादि पयःसंस्कृत ओदनः प्रसिद्धः । वाणसो जरच्छागः । एवं हि निगमेषु पठ्यते "त्रिपिवं त्विन्द्रियक्षीण श्वेतं वृद्धमजापतिम् । वाणिसं तु तं प्राहुर्याज्ञिकाःपितृकर्मणि"॥ पिबतो यस्य त्रीणि जलं स्पृशन्ति कौँ जिह्वा च स त्रिभिः पिबतीति त्रिपिबः । यत्तु १५ शङ्खन गोमांसभक्षणे प्रायश्चित्तमाम्नातं तन्मधुपर्काष्टकाश्राद्धेभ्योऽन्यत्र ज्ञेयम् ॥ २७१ ॥ __ कालशाकं महाशल्काः खङ्गलोहामिषं मधु ॥ आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ २७२ ॥ कालशाकं विशिष्टशाकं प्रसिद्धम् । कृष्णे वास्तुकैभेदे वा यथा महाशल्काः शल्यका उच्यन्ते । अन्ये तु मत्स्यान सशल्कानाहुः । खगो गण्डकः लोहः कृष्णश्छागः सर्वरक्तश्च । तथा पुराणम् “ कृष्णश्छागस्तथा रक्त आनन्त्यायैव कल्पते " । लोहशब्दो वर्णलक्षणया तद्वर्णयुक्ते छागे वर्तते । अयःकृष्णं तानं लोहितं उभयत्रापि लोहशब्दः प्रयुज्यते । यद्यपि चैष वर्णो मेषादिष्वपि संभवति तथापि स्मृत्यन्तरप्रसिद्धया छाग एव गृह्यत इति व्याचक्षते । अन्ये तु शकुनिर्लोहितपृष्ठः नामैकदेशेन देवदत्तो दत्त इतिवत्प्रतिपाद्यत इत्याहुः । समाचारश्चोभयत्राप्यन्वेष्यः । [ अष्टावैणेयमांसेन पार्षतेनाथ सप्त वै ॥ अष्टावैणेयमांसेन रौरेवण नैवव तु ॥१॥] १र-कृष्णवासुदेवो यथा । २ फ-प्रतिपद्यते। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy