________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९४ मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः अत्र चोच्यते यदुक्तं यथा ब्रूयुस्तथा कुर्यादिति । यदि तैरुक्तं गृहानस्मदीयानेतदन्नं प्राप्यतामिति तदा वैश्वदेवहोमादीनां का गतिः । पाकान्तरं कर्तव्यम् । अथवाऽदृष्टार्थभेवान्नशेषनिवेदनं नित्यवदाम्नायते । शेषमन्नमित्युक्तेऽदृष्टेभ्य इति ब्रूयुरिति पाक्षिकं चैतत्स्याद्यदि ते गृह्णीयुः ॥ २६४ ॥
उच्छेषणं तु तत्तिष्ठेद्यावद्विषा विसर्जिताः ॥ ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ २६५ ॥
भुञ्जानानां यत्किञ्चिद्भुज्यधिकरणपात्रसंलग्नं भूमिपतितं च तत्र तस्माद्देशादवमाष्टव्यं यावब्राह्मणा न निष्क्रान्ताः । ततो गृहबलिं निष्पन्ने श्राद्धकर्मण्यनन्तरं वैश्वदेवहोमान्वाहिकातिथ्यादि भोजनं कर्तव्यम् । बलिशब्दस्य प्रदर्शनार्थत्वात् ।
अन्ये तु भूतस्य यज्ञ एव बलिशब्देन प्रसिद्धतरस्ततश्चाग्नौ होमो न प्राग्विरुध्यत इत्याहुः । न चैतद्वाच्यं पित्र्ये कर्मणि प्रारब्धे कथं कर्मान्तरस्य तदन्तःकरणम् । यथैव पूर्वेयुर्निमन्त्रितेषु ब्राह्मणेषु सायंप्रात:मकरणं व्यहकल्पे श्राद्धस्य विरुद्धमेवं वैश्वदेवहोमोऽप्यौपसदाग्निकः । तेन भूतयज्ञात्पराञ्चः पदार्था उत्कृष्यन्ते नार्वाञ्चः ।
___अत्रोच्यते । यदि प्रागग्नौ वैश्वदेवहोमः क्रियते ततः श्राद्धानन्तरं बलिहरणं तथा १५ सति देवयज्ञभूत ज्ञौ व्यवधीयेताम् । ततश्च क्रमोपरोधो न च वैश्वदेवस्य कालबाधः क्रियते । पितृश्राद्धालहानेः। तस्मात्सर्वं महायज्ञानुष्ठानं श्राद्धादौत्तरकालिकम् ॥ २६५॥
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ॥ पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ २६६ ॥
चिररात्रशब्दो दीर्घकालवचनः । यच्चानन्त्याय केनचिद्वचनं नैवैतदुभयं ब्रवीमीति २० प्रणिधानार्थमुच्यते । कल्पते प्रेत इत्यध्याहार्यम् ।। २६६ ॥
तिलै/हियवैरिद्भिर्मूलफलेन वा ॥
दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥ २६७ ॥
तिलादिग्रहणं नेतरधान्यपरिसंख्यानार्थमपि तूक्तानां फलविशेषप्रदर्शनार्थम् । एतैर्विविधदत्तैरपि मासं प्रीयन्ते । विधिवत्पितरो नृणामित्याद्यनुवादपदानि २५ वृत्तपूरणार्थानि ॥ २६७ ॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु ॥
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ २६८ ॥
उरभ्रा मेषाः । शकुनय आरण्याः कुक्कुटाद्याः। मत्स्याः पाठीनाद्याः ॥२६८॥ १ र-पितृश्राद्धे । २ फ-कल्प्यते।
For Private And Personal Use Only