SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९३ अध्यायः मनुस्मृतिः। दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥ श्रद्धा च नो माव्यगमद्वहुधेयं च नोऽस्त्विति ॥ २५९ ॥ * मन्त्रवदयं श्लोकः पठितव्यः ॥ २५९ ॥ एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ॥ गां विप्रमजमनिं वा प्राशयेदप्सु वा क्षिपेत् ॥ २६० ॥ तदनन्तरं वरयाचनानन्तरं पिण्डान्पितृभ्यो निरुतान् गवादीन्याशयेत् । अग्नौ प्रक्षेप एव । प्राशनं प्रापयेदिति पाठान्तरम् ॥ २६० ॥ पिण्डनिर्वपणं केचित्पुरस्तादेव कुर्वते ॥ वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ २६१ ॥ ब्राह्मणभोजनात्पुरस्तात्कृते ब्राह्मणभोजने हविः कुर्वन्ति । वयोभिः पक्षिभिः १० खादयन्त्यन्येऽधिकेयं पूर्वस्मात्प्रतिपत्तिः । अनलोऽग्निः । एतत्पूर्वोक्तमेवानुदितम् । उच्छिष्टसन्निधौ चैतत्पुरस्तात्पिण्डदानमिष्यते ॥ २६१ ॥ पतिव्रता धर्मपत्नी पितृपूजनतत्परा ॥ मध्यमं तु ततः पिण्डमद्यात्सम्यक् सुतार्थिनी ॥ २६२ ॥ आद्यन्तयोः पिण्डयोरेपा प्रतिपत्तिः । मध्यमं तु ततस्तेषां पिण्डानां यो मध्यमः १५ तं धर्मपत्नी पुत्रार्थिनी अद्यात् । या न कौमार्थमूढा पतिरेव मया परिचरणीयो मनसाऽपि व्यभिचारो न कर्तव्य इति यस्या नियमः सा पतिव्रता पतिकवता पितृपूजने श्राद्धादिकर्मणि तत्परा श्रद्धावती प्रयत्नेन तदाराधनादौ प्रवर्तते। सम्यगद्यादाचमनादि, विधिना नियमेन च ।। २६२ ॥ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ॥ धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ २६३ ॥ भक्षयित्वा तु तं पिण्डं सुतं पुत्रं मूते जनयति । मेधा ग्रहणशक्तिः तया समन्वितं युक्तम् । सत्वं नाम गुणः साङ्खयेषु प्रसिद्धः धैर्योत्साहादिद्योत्यस्तद्युक्तम् ॥३६३॥ प्रक्षाल्य हस्तावाचम्य ज्ञातिप्रायं प्रकल्पयेत् ॥ ज्ञातिभ्यः सत्कृतं दत्वा बान्धवानपि भोजयेत् ॥२६४ ॥ २६ पिण्डेषु प्रतिपादितेषु तौ हस्तौ प्रक्षालयेत् । ततः आचमनविधिं कुर्यात् । ज्ञातीन् पैति गच्छति प्राप्नोतीति ज्ञातिप्रायं कुर्यात् । ज्ञातिभ्यो दद्यात् । तेभ्यः सत्कृतं दत्वा बान्धवेभ्योऽपि दद्यात् । ज्ञातयः सगोत्रा मातृश्वशुरपक्षा बान्धवाः । [ अन्नं च नो बहुभवेदतिथींश्च लभेमहि ॥ याचितारश्च नः सन्तु मा च याचिष्म कंचन ॥१॥* श्राद्धभुक् पुनरश्नाति तदहों द्विजाधमः ॥ प्रयाति शुकरी योनि कृमिवा नात्र संशयः ॥ २ ॥s] १फ-कामार्था मूढा । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy