________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२ मेधातिथिमाष्यसमलंकृता ।
[तृतीयः दर्भाः पवित्रं पूर्वाह्रो हविष्याणि च सर्वशः॥ पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ २५६ ॥
दर्भाः प्रसिद्धाः । पवित्रं मन्त्राः । हविषे हितानि योग्यानि हविष्याण्युत्तरश्लोके तानि वक्ष्यन्ते । पवित्रं पावनं शुच्याचारता यच्चोक्तं पूर्वोक्तं वा वास्तुसंपादनं ५ सृष्टिदृष्टिाह्मणाश्च श्रेष्ठाः श्रुतशीलसंपन्नाः।हव्यसंपदः हव्यं देवतोद्देशेन यागादि ब्राह्मणभोजनं च । हव्यशब्दः कर्म दैविकमुलपक्षयति ॥ २५६ ॥
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ॥ अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥ २५७ ॥
मुनिर्वानप्रस्थः तस्यान्नानि आरण्यानि नीवारादीनि । एतच्च प्रदर्शनं ग्राम्याणा१० मपि ब्रीह्यादीनाम् । तथाऽर्वाचीने श्लोके सर्वग्रहणम् । उत्तरत्र च " हविर्यच्चिररात्रायेति"
प्रक्रम्य "तिलै-हियषैिरिति" ग्राम्याणामप्यनुक्रमणम् । पयः क्षीरं तद्वविकारा अपि दध्यादयो गृह्यन्ते स्मृतिसमाचाराभ्याम् । सोम ओषधिविशेषः । अनुपस्कृतमधिकृतम. प्रतिषिद्धं । सूनामासाद्यनुपस्कृतं अक्षारलवणम् । अत्र संदिह्यते किं द्वंद्वगर्भो
नसमासः उत नसमास एव । अक्षारलवणम् । उत लवणविशेषः क्षारलवणं ततोऽ. १५ न्यदभ्यनुज्ञायते । लवणमेवं भवितुमर्हः । किं द्वन्द्वगर्भे हि वृत्तिद्वयमाश्रयणीयम् ।
प्रतिपदं च नञः संबन्धभेदस्तद्गुरु भवति प्रकृत्या हविरनाश्रितविशेषेण तद्धविज्ञेयं हविष्येण वर्तते । " हविष्यात्प्रातराशाद्भुङ्क्त ” इत्यादि सामान्यचोदनासु तद्भविष्यं ज्ञेयम् ॥ २५७॥
विसय॑ ब्राह्मणास्तांस्तु नियतो वाग्यतः शुचिः ॥ २० दक्षिणां दिशमाकांक्षन्याचेतेमान्वरान्पितॄन् ॥ २५८ ॥
प्रासङ्गिकः पूर्वश्लोकः । इदानी प्रकृतशेषमेवाह । विसयानुज्ञाय यथासुखविहारे ब्राह्मणांस्तान्प्रभुक्तवतः । अनन्तरं दक्षिणां दिशमीक्षमाण इमान् वरानभिलषिताम्पितन्याचेत स्वपितृन्प्रार्थयेत् । स्वपितॄन् ध्यायन युष्मासु प्रसन्नोविदं नः संपद्यता
मित्येवं याचितव्यम् ॥ २५८॥ २५ के पुनस्ते वरा याचितव्या इत्यत आह
१ अग्रे २६६ श्लोके । ३ अने २६७ श्लोके । ३ फ-विसृज्य ।
For Private And Personal Use Only