________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२९१ वक्ष्यति ( श्लो.२५४) "पित्रे स्वदितमित्येव वाच्यमिति"। आचान्तांश्चानुजानीयादभिभो रम्यतामिति अभितः उभयतः इहैव स्वगृहे वा यथेष्टमास्यतामित्यर्थः ।
स्वधाऽस्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥
स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु ॥ २५२ ॥ भुक्तवद्भिर्गृहगमनाभ्यनुज्ञातैरनन्तरं स्वधेति वाच्यम् । स्वधाकारः स्वधाशब्दो- ५ च्चारणम् । प्रकृष्टा आशीः पितृकार्येषु सर्वेषु पक्वान्नापक्वान्नश्राद्धेषु ॥ २५२ ॥
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ॥
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ।। २५३ ॥ भुक्तमन्नं तेभ्यो निवेदयितव्यम् । प्रष्टव्यास्ते इदमस्तीति यथा ब्रूयुस्तथा कुर्यादनुज्ञातोऽननुज्ञातेन नान्यत्र विनियोक्तव्यम् ॥ २५३ ॥
पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् ॥
संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ २५४ ॥ अन्येनापि तत्कालोचितोपस्थितेनैवमेभिः शब्दैः मोदयितव्यः । अन्यस्त्वाह । अनुज्ञापनमेतैः शब्दोजनादिप्रवृत्तैः कर्तव्यम् । अतश्च श्राद्धकृता परिशिष्टयैवं वक्तव्यम् । स्वदध्वमिति न हि खादितम् । स्वदित इतिवा पाठः । एतस्यार्थस्य प्रतिपादकं १५ एतव्याख्यानं स्मृत्यन्तरसमाचारसापेक्षं तस्मात्प्रवृत्तभोजनाः श्राद्ध कृताऽन्येन वैवं प्रीणयितव्याः। गोष्ठे गोषु तिष्ठन्तीष्वेकदेशेषु श्रुतमिति वाच्यम् । आस्त्विति सर्वत्र प्रतीयते । दैवे रुचित रोचितमिति वा ॥ २५४ ॥
अपराह्नस्तथा दर्भा वास्तुसंपादनं तिलाः॥
सृष्टिर्मष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ २५५ ॥ २० अपराह्ने श्राद्धं कर्तव्यं श्राद्धकर्मसु संपदः संपादयितव्याः । अन्यानि वस्तूनि । अविशेषाभिधानेऽप्यपराह्ने अतः सर्वश्राद्धेषु । एवं हि स्मृत्यन्तरम् " पूर्वाह्ने दैविकं कार्यमपराह्ने तु पैतृकम् । एकोद्दिष्टं तु मध्याह्न प्रातवृद्धिनित्तिकम्" इति ॥ वास्तु वेश्म तस्य संपादनं सम्माननं सुधादिना भित्तीना गोमयेन भूमेरुपलेपनं दक्षिणाप्रवणता च सृष्टिविसर्गः । अकार्पण्येनान्नव्यञ्जनदानम् । मृष्टिर्मार्जनं । अन्नसं- २५ स्कारविशेषः । अन्ये तु व्याचक्षते संपदेषा विभवशक्तिर्न त्वेतैविना अकरणम् ॥२५॥
१ फ-तत्कालोचितोपस्थिनेन । २ र-सहयितव्यः । ३ फ-प्रवृत्तैः । ४ फ-रुचिरं ५ फ-विधाने ।
For Private And Personal Use Only