________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९० मेधातिथिभाष्यसमलंकृता ।
[ तृतीयः "असपिण्डक्रियाकर्म द्विनातेः सांस्थितस्य च । अदैवं भोजयेच्छ्राद्धं पिण्डमकें च निर्वपेत् ॥
सपिण्डीकरणं मृते पितरि जीवति पितामहे पाक्षिकं ज्ञेयम् । यदा न जीवन्तमतिक्रम्य ददातीत्येवं नाश्नीयते। यदा तु स एषाग्रतास्यादिति पक्षस्तदा पितामहमतिक्रम्य पूर्वैः संसर्ननीयः । एवं तु पुत्रस्यापि मृतस्य पित्रा विकल्पेनैव कर्तव्यमेवमनपत्यभार्यामरणे जीवन्मातृकस्यैष एव विधिः । “ प्रमत्तानामितरे कुरिस्ताश्च तेषामिति"। सुतैरपत्यरित्यर्थः । यद्यपि सुतग्रहणं तत्स्थानापन्नानामन्येषामपि ग्रहणं यदि स्वशब्देन नास्ति निषेधः ॥ २४८ ॥
श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ॥
स मूढो नरकं याति कालसूत्रमवाकाशराः ॥ २४९ ॥ १० यद्यपि श्राद्धभुजो दोषग्रहणं तथापि कर्तुरयमुपदेशः । तेन तथा कर्तव्यं यथा
न प्रयच्छति ऋत्विडियमवत् । वृषलः शूद्रः । अवाशिरा ऊर्ध्वपादः । प्रकृत एव सपिण्डीकरणमाविज्ञायीति श्राद्धग्रहणम् ॥ २४९ ॥
श्राद्धभुषलीतल्पं तदहार्योऽधिगच्छति ।।
तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ॥ २५० ॥ १५ वृषली स्त्रीमात्रोपलक्षणार्थमेतदित्याहुः । निरुक्तं कुर्वन्ति । वृषस्यन्ती चलयति
भर्तारामिति वषली । सा च ब्राह्मणी अन्या वा सर्वा निषिध्यते । तथा च स्मृयन्तरं " तदहब्रह्मचारी स्यान्नियत ” इति । तत्पशब्देन मैथुनसंयोगो भण्यते । न शयनारोहणप्रतिषेध एव । अहम्रहणमहोरात्रलक्षणापरम् । रात्रावपि निषेधः स्यात् । पुरीष इति
निन्दार्थवादो निवृत्त्यर्थः । पितरस्तस्य श्राद्धभुनः । अयमपि पूर्ववद्वचनीयः । इदं तु २० युक्तं यदुभयोनियम इति । नैमित्तिकोऽयं भोक्र्तधर्मः । श्राद्धभोजने निमित्ते विधीयते । प्रकरणार्थश्च कर्मार्थोऽपि ॥ २५०॥
पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः ॥ आचान्तांश्चानुजानीयादभिभो रम्यतामिति ॥ २५१ ॥
आचमनिकमस्रपानं दत्वा प्रष्टव्याः । स्वदितमित्यनेन शब्देन स्मृत्यन्तराच्चान्नं २५ परिगृह्य प्रश्नोऽयं कर्तव्यः । भवति हि कस्याचिदयं स्वभावो यद्यसंनिहितमन्नं सत्यपि तदभिलाषे
यन्त्रणयात्रं मृग्यते । संनिहितं गृह्णाति । तृप्तानामाचामयेत् । अन्ये तु तृप्ताः स्थ इत्येनन शब्देन प्रष्टव्याः । ज्ञात्वा च नृप्तान्स्वदितमिति अनेन शब्देन बृंहणीयाः ।
१ गौतमधर्मसूत्रे अ. १५ सू. २४ । २ ड-भोक्तृधर्मः । ३ र-अवसानिकं *-* एतत्फपुस्तके न दृश्यते । रुचिढं ।
For Private And Personal Use Only