________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८ मेधातिथिभाष्यसमलंकृता ।
तृतीयः पिण्डानां मासिकश्राद्धमिति नियतत्वात्कालान्तरसंयोगस्याभावाद्धमर्वत्वाच्च युक्तस्तदीयधर्मातिदेशः। आमश्राद्धमपि पार्वणप्रकृतिकमेव तत्प्रकृतित्वे च त्रिभ्यो दाने प्राप्ते एकोद्दिष्टता विधीयते । यदपि याज्ञवल्क्यवचनं (आचारे २५६ श्लो०) ___"मृताहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि" ॥ तत्राप्येवमेतादृशीतिकर्तव्यता उच्यते । तत्रापि ह्यमावास्यमेव प्रकृतत्वेनावगतं अतो न मासकालयोगेऽपि एकोद्दिष्टे तदीयधर्मातिदेशो अन्यत्र युक्तः । भिक्षुको भिक्षुकाद्याचते सोऽपि यतो यस्य विकारः। ___किंच एकमेव श्राद्धं तस्मान्न मासिकमेव श्राद्धं तस्मान्न मासिकशब्दस्यकोद्दिष्टविशेष
विषयतायां प्रमाणमस्ति । याज्ञवल्क्येऽप्येवमिति । यद्यनन्तरावमर्शः तदा सपिण्डीकरणेति१० कर्तव्यतातिदेशः प्राप्नोति । तदनन्तरं ह्येतच्छुतम् । एतत्सपिण्डीकरणमिति पठित्वाऽर्वाक्
सपिण्डीकरणादिति च ततोऽनन्तरमुक्तम् "मृताहनीत्यादि" । तस्मात्सन्निधानमकारणीकृत्य धर्मवत्वेनामावास्यस्यैवमिति निर्देशः । मन्त्राश्चास्मत्पक्षमेव सुतरामवद्योतयन्ति । " संसृज्यध्वं पूर्वैः पितृभिः सहेति" पूर्वैः पितृभिः सह वर्तमाना उच्यन्ते । संसृज्यध्व
मिति बहुवचनं पूजायाम् । तथा च निरुक्तकारः " एता उ त्या उषस इति । १५ एतास्ता उपास इत्येकस्या एव पूजनार्थे बहुवचनमिति " । अथ संसज्यध्वमिति येषु
पिण्डेषु निक्षिप्यन्ते त उच्यन्ते यश्च निक्षिप्यते बहुवचनेन पूर्ववत्पूर्वेभिः पितृभिरिति । एवं च पृर्वेभिरित्येवमेव बहुवचनं प्रायोगिकं भविष्यति । इतरथा संसृज्यध्वमितिनिक्षिप्यमाणपिण्डाभिधाने उभयत्र बहुवचनमयथार्थ कल्प्यमिति । तदेतदपि न किंचिद्यत एकैकेन
पिण्डेन पिण्डांशः संसृज्यते । चतुर्थ पिण्डमुत्सृज्य त्रैधं कृत्वा पिण्डेषु निदध्यादिति । २० अतो नैवात्र युगपदधिकरणवचनताऽस्ति येन बहुवचनमवकल्पेत । एकैकाभिधाने न कुत
आन्वयिकं संसृज्यध्वमिति बहुवचनं परोक्षवत्त्वाभिधानं न करप्यते । पूर्वेभिरिति निक्षिप्य. माणपिण्डवचनाच्च न एभिरिति निर्देशो युक्तः स्यात् । न चायं मन्त्रो विधायको येन तदर्थनिर्णये प्रयतामहे । अभिधायकोऽयम् । अभिधानगुणं च विनियोगतो विनियोगश्च संस
र्जन नै प्रकाशयति । संख्याऽत्र न विनियुक्ता न प्रकाशाप्ता संभवमात्रेणान्वीयते तस्मान्न २५ मन्त्रात्पूर्वप्रतिपत्तिः।
येऽप्याहुश्चतुर्थः शब्दः पूर्वतर उपपद्यते पिता हि प्रथमःतदपेक्षया प्रपितामहात्पूर्वश्चतुर्थ इति एतदपि न सम्यक् । पूर्वेषां पिण्डान्निधाय चतुर्णी पूर्णश्चतुर्थः प्रेतपिण्ड एव भवति । १र-सामान्यर्थट (४) स्य । २ फ-परोक्षाभिधानं । ३ फ-अभिधानं च गुणविनियोगतो । ४ र
वव । ५फ-च।
For Private And Personal Use Only