________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. २८७
अध्यायः]
मनुस्मृतिः। "यःसपिण्डीकृतं प्रेतं पृथक् पिण्डेन योजयेत् । विधिनस्तेन भवति पितृहा चोपजायते” ॥ इति
पृथगेव हि तस्मै निरूप्यते। न त्वेकः सर्वेभ्य इति । मन्त्राश्च एतमेवार्थमभिवदन्ति 'ये समाना' इत्यादयः। अत्रोच्यते। नायं प्रेतशब्दोऽयतः क्रियायोगेन वर्तते । रूढिरियं मृतः प्रेत इदानीं प्रेत उच्यते । न हि दूरमध्वानं गतः प्रेत उच्यते। अस्ति च क्रियायोगः ५ अविशेषेण पूर्वप्रेत इदानीं प्रेते च । तथा च श्रुतिः "प्रयन्नेवास्माल्लोकाद्ये समाना" इति अचिरमरणे प्रेतप्रयोगं दर्शयति ‘प्रेतायान्नं दिनत्रयमिति' सद्यःसंस्थितमधिकृत्य । यत्तु पृथपिण्डेनेति अस्थायमर्थः । सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं न कर्तव्यम् । यदा यदा श्राद्धं तदा तदा त्रिभ्यः मृताहनि पितृभ्यस्त्रिभ्य एव कर्तव्यम् । नैकस्मा एव पित्रे। . तथा अनयैवावृता कार्यमिति पार्वणश्राद्धे कर्तव्यता वाऽतिदिश्यते ।
१० ननु चानयैवेति प्रकृतपरामर्शाः प्रतीयन्ते सन्निहितवचनत्वात्सर्वनाम्नां सन्निहितश्चैकोद्दिष्टविधिः । नैवम् । यदि हि कृतेऽपि सपिण्डीकरणे एकस्यैव क्रियेत तदा भेदनिर्देश एव नोपपद्यते । तुशब्दश्च प्रकृतायामितिकर्तव्यतायां भेदं सूचयति । असपिण्डक्रियायामेष विधिः । सहपिण्डक्रियायां पुनः कृतायां नायं मन्तव्य इति । अतो व्यवहिताऽपि बुद्धिस्थत्वात्पार्वणताऽतिदिश्यते । किंच कृते सपिण्डीकरणे यदैकोद्दिष्टं स्यात्कर्तव्यं १५ तदा त्रिभ्योनमिति अमावास्यायामिति केचित् । को विशेषस्तत्रापि सह पिण्डक्रियामित्येवमर्थः किं नास्ति । न च मानवशास्त्रे कालान्तरमृताहे प्रतिसंवत्सरं चेत्यादि प्रतीत येन तद्विषयमेतद्याख्यायते । अतो विशेषात्सर्वत्रैकोद्दिष्टानि प्राप्नुवन्ति। तत्र महाभारतवचन विरुध्येत । तीर्थानि प्रकृत्योक्तं "श्राद्धेन तर्पयामास स वै पूर्व पितामहान्” इति । ____ यदपि स्मृत्यन्तरं प्रतिसंवत्सरं चैव श्राद्धं वैमासिकार्थवत् । तत्रापि मासिक- २० शब्देनामावास्यायामेव श्राद्धमुच्यते । सर्वश्राद्धानां तस्य प्रकृतित्वात् । तत्र हि धर्माः समाम्नाताः । न तु “प्रतिमासं तु वत्सरमिति " एतन्मासिकशब्देनाभिधातुं युक्तम् । न हि तस्य विशिष्टाः केचिद्धर्माः समाम्नाता यैर्भिद्येत । एकोद्दिष्टं त्वाद्यमेकादशे क्षत्रियस्य त्रयोदशे इत्याद्यत्रापि विद्यते । अतो नैकोद्दिष्टं मासिकशब्देनाभिधातुं युक्तम् । मासकालसंबन्धाद्धि तन्मासिकमुच्यते । न च तस्य मासेनैव संबन्धः । कालान्तरेणापि २५ संबन्धस्य दर्शितत्वात् । 'शुचिर्भूतः पितृभ्यो दद्यादिति' मासादूर्ध्वमपि करणान्मासे चाकरणानात्र मासिकशब्देन तस्याभिधानम् । अमावास्यायास्तत्प्राप्तौ मासिकशब्दश्रवणा
१फ-संवत्सरमिति।
-
-
-
For Private And Personal Use Only