________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता।
[ तृतीयः भोजयितव्यः । स्मृन्यन्तरे अन्याऽपीतिकर्तव्यता वैशेषी स्मयते । आवाहनाघ्नौकरणरहितमिति । अग्नौकरणशब्देन चात्र ' अग्नौ करिष्य' इत्यनुज्ञापनं प्रतिषिध्यते न पुन)मः । तथाहि गृह्ये प्रेतश्राद्धमेवाधिकृत्य होम आम्नायते । यस्मिंश्च काले कर्म कर्तव्यं यावन्तं च कालं स्मृत्यन्तरादन्वेष्टव्यम् । आद्यमेकादशेऽहनि । ___ "मृताहेऽपि च कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैव श्राद्धं वैमासिकार्थवत्" इति। तथा च काठके एवं सांवत्सरिकमिति' । एकादशग्रहणं चौशाचनिवृत्त्युपलक्षणार्थम् । यतः 'शुचिर्भूतः पितृभ्यो दद्यादिति । श्रूयते । संवत्सरान्ते हि सपिण्डीकरणं गृह्यकाराः स्मरन्ति । एतच्च श्राद्धमेकोद्दिष्टं तदङ्गभूतं च निर्वपणम् ।
यत्तु श्रौते पितृभ्यो दद्यादितिवचनात् पितृपितामहाय प्रपितामहाय चेति अकृते सपिण्डी१० करणे नेह दानं युक्तं न हि स्मृत्या श्रुतिर्वाधितुं शक्यत इति ॥ २४७ ॥
सहपिण्डक्रियायां तु कृतायामस्य धर्मतः॥
अनयैवाढता कार्य पिण्डनिर्वपणं सुतैः ॥ २४८ ॥
यदा तु सपिण्डीकरणं कृतं भवति तदा अनौवाता पार्वणश्राद्धविधिना त्रिभ्यो दद्यात् । आवृदितिकर्तव्यता । न सपिण्डीकरणश्राद्धं दैवपूर्व नियोजयेत् । पितृनावाहयेत्। १५ अत्र पुनःप्रेतं पितरश्चात्र प्राक्सपिण्डीकृताः पितृवर्गमनुप्रवेशिताः पितामहादय उच्यन्ते
तानाशयेत् । तत्र पुनः शब्दस्तेष्वेव ब्राह्मणेषु प्रेत आवाहयितव्यः । तत्र हि सर्वैस्तैः सह संसर्गस्तस्य संसृजनाय तत्कर्म । यदपि विष्णुना पठितं " प्रेताय ब्राह्मणान् भोजयेत् प्रेतपित्रे प्रेतपितामहाय च प्रेतप्रपितामहायति " । अत्रापि नैवं श्रूयते पृथक्
भोजयेदिति । तत्र यथा बहुदैवत्यं हविर्बव्हीर्देवता उद्दिश्य सकृदेकं हूयते एवं ब्राह्मणोऽपि २० विद्वानुद्दिश्य भोज्यतेति न किंचिदनुपपन्नम् । तथाहि सहवचनगृहीतं भवति पित्र्ये
च न युग्मा भोनिता भवन्ति । यथा एकैकमुभयत्र वेति येषां विधिस्तन्मते एकः सर्वोद्देशेन भोज्यते । एवमेतद्रष्टव्यम् । नन्वेवं सति पितृकृत्ये त्रीनिति सर्वदेवसहोदेश: प्राप्नोति एकैकस्मिन् ब्राह्मणे सर्व उद्देश्येरन् तत्रापि न पृथक्महणमस्ति कथं नास्ति ।
गृह्ये हि पठ्यते " न त्वेवैकै सर्वेषां पिण्डैाख्यातम् " । किंच प्रेतपात्रं पितृपात्रेषु २५ सेचयेदर्घार्थमित्याह तत्र कृतासन्नपात्राभावे प्रेतपात्रोदकस्य कुतः पात्रादर्घदानं यदि
तावत्संमीलितास्तदयुक्तं पितामहादेस्तत्कल्पितं न पितुर्न चान्यार्थं कल्पितादित्यन्यार्थता युक्ता । अथ कृत्वाऽर्घदानं पश्चात्संनयनं कुर्यात् । तदा कृत्वाऽदानं तदर्थ सन्नयनस्य स्वतंत्रार्थि प्रसेचयेदिति विरुध्येत वचनम् । उक्तेनात्र प्रकारेण न कश्चनविरोधः ।
____ अथ कोऽयं प्रेतो नाम प्रपितामहाय पिण्डः सपिण्डीकरणादृर्वं न दीयते ३० यतस्तेष्वेवानुप्रविष्टः । तथा च स्मृतिः
For Private And Personal Use Only