________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
२८५ अतिथित्वेनागतं ब्राह्मणं भिक्षुकं भिक्षार्थिनं ब्राह्मणमपि भोजनप्रवृत्तैाह्मणैरनुज्ञातः शक्त्या पूजयेत् । भोजनेन भिक्षादानेन वा युक्तार्थतयाऽर्चयेत् यतः स पाकस्तदहस्तदर्थ एव ॥ २४३ ॥
सार्ववर्णिकमन्नायं सन्नीयाप्लाव्य वारिणा ॥
समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भकिमी २ वर्णशब्दः प्रकारे द्रष्टव्यः । सर्वप्रकारैर्व्यञ्जनषेतमाय सन्नीय एकीकेत्य वारिणा आप्लाव्य भुक्तवतां तृप्तानां 'तृप्ताः स्म' इतिवरनानन्तरं अंतर समुत्सजेती विकिरेत् नैकस्मिन्नेव देशे किंतर्हि विशीर्ण भुवि । न पात्र ममावपि न शुद्धायां कि' तर्हि वक्ष्यति " दर्भेषु विकिर " इति । “ सकृत्रिर्वा विकिरं कुमार पति शहः ।
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्यादर्भेषु विकिरश्च यः ॥ २४५ ॥ नास्य कार्योऽग्निसंस्कार इत्यत्रिवर्षा असंस्कृतास्तेषां प्रमीतानां पात्रस्थं उच्छिष्ट दर्भेषु विकिरश्च तेषां भागधेयम् भागधेयशब्देनोच्यते न हि तेषां श्राद्धोपकारो नास्ति । त्यागिनां गुर्वादीनां अथवा कुलयोषितां कुलस्त्रीणामदृष्टदोषाणा भार्याणां त्यक्तारः स्वतन्त्राः। अन्ये तुं कुलयोषितामित्यस्मिन्ननूढाः कन्याः कुलयो- १५ षित इति व्याचक्षते । अत उच्छिष्टं तेभ्य उद्देष्टव्यम् । न च वाच्यमपवित्रमुच्छिष्टं कथं भागधेयेन कल्पतामिति । वचनान्नास्त्यपवित्रता सोमोच्छिष्टवत् ॥ २४५ ॥
उच्छेषणं भूमिगतमजिह्मस्याशठस्य च ॥
दासवर्गस्य तत्पित्ये भागधेयं प्रचक्षते ॥ २४६॥ पात्रस्थस्य पूर्वेण प्रतिपत्तिरुक्ता । भूमौ निपतितस्योच्छिष्टस्य दासवर्गार्थताऽनेन २० कथ्यते । अजिह्मोऽकुटिलः । अशठः अनलसः। तादृशस्य दासवर्गस्य स भागः तस्मात् प्रभूतं दातव्यं येन भूमौ भुञ्जानस्य पततीति ॥ २४६ ॥
आ सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ॥
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥ २४७ ।। संस्थितस्य द्विजातरा सपिण्डक्रियाकर्म प्रथममृतस्या सह पिण्डकरणाख्यं कर्म २५ कर्तव्यम् । सहपिण्डदानं पूर्वाभ्यां न कर्तव्यं कथं तर्हि कर्तव्यं पिण्डमेकं च निपेदिति। चशब्द एक्शब्दस्यार्थे तस्मा एव प्रेतायैकं पिण्डं निपेत् । ब्राह्मणो हि तस्मा एव
१ राघवानन्दः । २ र-अजिह्मः कुटिलः ।
For Private And Personal Use Only