________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४ मेधातिथिभाष्यसमलंकृता।
[तृतीयः वराहः शूकरः। स च ग्राम्यः। श्वसन्निधानतो नेक्षेरनिति यद्यपि श्रुतम् तथापि तत्प्रदेशसनिधिमेव शिष्टा नानुमन्यन्ते । तथा च 'घ्राणेन शूकर' इत्यादि क्रियान्तरमर्थवादेन श्रूयते । न चानीक्षमाणस्य घ्राणं संभवति । सन्निहितानां तु स्वरूपानुवादोऽयम् ।
सूकरो विजिघ्रति । कुक्कुटः पक्षानुद्भुनोति । तस्मात्परिश्रिते दद्यादिति विधिः प्रयोजनमे५ तदोषाभावेऽपरिश्रितेऽपि दद्यात् । षण्ढो नपुंसकम् ॥ २३९ ॥
होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ॥ दैवे कर्माण पिव्ये वा तद्गच्छत्ययथातथम् ॥ २४० ॥
होमे अग्निहोत्रादौ शान्त्यादिहोमे वा । प्रदाने गोहिरण्यादिद्रव्यविषये । अभ्युदयार्थे भोज्ये ब्राह्मणा यत्र धर्माय भोज्यन्ते । दैवे हविषि दर्शपौर्णमासादौ । पिव्ये १० श्राद्धे यदभिवीक्ष्यते क्रियमाणमात्रं कर्म तद्वच्छत्ययथातथम् । यदर्थ क्रियते तद्वि__परीतं भावयति । यद्यपि श्राद्धप्रकरणं तथापि वाक्यादन्यत्रापि होमादावयं प्रतिषेधः॥२४०॥
घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ॥ श्वा तु दृष्टिनिपातेन स्पर्शनावरवर्णजः ॥ २४१ ॥
पक्षकृतेन वायुना कुक्कुटो हन्ति । व्याख्यानमेतत् । तावति देशे निवारणीयमेषा १५ संनिधानं यावति स्थिताः पश्यन्ति । अवरवर्णजश्चाण्डालः जडप्रकृतित्वात् ।
स्पर्शादयश्च प्रकृतक्रियापरा न व्यवक्षितत्वरूपा इति व्याख्यातम् । अतोऽवद्यमेतत् । चण्डालस्य सामान्यतः स्पर्शप्रतिषेधादसत्यां प्राप्तौ प्रतिषेधानर्थक्यम् । अतः शूद्रोऽवरवर्णजस्तस्य च द्विजातिश्राद्धस्पर्शनिषेधो नात्मीये इति विवक्षितेऽपि नान्नपानादिस्पर्श
दोषोऽयमुच्यते । किंतर्हि यो देशः परिगृहीतो नदीपुलिनादिरपरिश्रितस्तस्य स्पर्श तस्य २० हि वाय्वादित्यादिना शुद्धिरुक्ता । अतः सत्यां प्राप्तौ युक्तः प्रतिषेधः ॥ २४१ ॥
खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ॥ हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥ २४२ ॥
प्रेष्यो भृर्तकः । अपिशब्दादन्योऽपि यदृच्छया संनिहितो बान्धवादिरपनेयस्तस्मात्प्रदेशादपसारयेत् । खंजो गतिविकलः अनङ्गमादि । हीनातिरिक्तगात्रः षण्डः २५ कुणिखण्डीकः श्लीपद्यादिः ॥ २४२ ॥
ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् ॥ ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ २४३ ॥
१र-भृत्यः।
For Private And Personal Use Only