SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८३ अध्यायः ] मनुस्मृतिः। उष्णमेवात्युष्णं अतिगतमुष्णमिति प्रपतितपर्णः प्रपर्ण इति यथा सर्वमन्नं गुणाश्च । यस्योष्णस्य भोजनमुचितं तत्रैवेदमुष्णताविधानं न तु दध्योदनादेः यत्तदुष्णं अप्रीतिकरं व्याधिजनकं च । तत्र · हर्षयेद्ब्राह्मणानिति । विरुध्येत । उष्णभोजनविधानाच्च न सकत्सर्वमन्नं परिवेष्टव्यम् । तथाहि बहुभोजिनां शीतं भवेदन्नम् । तस्माद्भुक्ते पुनर्दद्यान्न च भुञ्जानेभ्य उच्छिष्टदानत्वात् दानमयुक्तमितिवाच्यम् । भोजनविधिरेवरूप एव । आ तृप्ते- ५ भॊनयितुापारो न ह्यत्रौदनादिप्रतिग्राह्यतया संबध्यते । अत एव न तत्र प्रतिग्रहमन्त्र भोदनादिषु प्रयुज्यते । वाग्यताः वाक् यता नियमिता यैः । छान्दसः परनिपातः । वाचा वा यताः । साधनं कृतेति समासः । कर्तृवचनश्च तदायतशब्दः व्यापारनिषेधो नियमनं वाचश्च व्यापारः शब्दोच्चारणं तत्प्रतिषेधः क्रियते । व्यक्ताव्यक्तशब्दोचारणं न कर्तव्यं हविषो गुणा न च वक्तव्याः । इष्टैः सद्भिर्भुञ्जानैर्दात्रे न विवक्षितमिति स्मरन्ति । ननु १० वानियमादेवैतत्सिद्धं सत्यमपि भयादिनाऽपि न कर्तव्यम् । ब्रूषिः प्रतिपादने वर्तते । ब्रूयुरिति न शब्दोच्चारणमेव ॥ २३६ ॥ यावदुष्णं भवत्यन्नं यावदश्नन्ति वाग्यताः ॥ पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २३७ ॥ पूर्वस्य विधेरर्थवादोऽयम् । उष्मा औष्ण्यम् ॥ २३७ ॥ यद्वेष्टितशिरा भुङ्क्ते यद्भुक्ते दक्षिणामुखः॥ सोपानत्कश्च यद्भुक्ते तद्वै रक्षांसि भुञ्जते ॥ २३८ ॥ वेष्टितमुष्णीषादिना । उदीच्या हि शाटकैः शिरो वेष्टयन्ति । यत्तु व्याचक्षते चूडाकारैरपि केशैर्वेष्टितशिरा भवतीति न ते युक्तिवादिनः । केशास्ते वेष्टयन्ते न शिरो न च केशा एव शिरः । शिरस्था हि ते दक्षिणाभिमुखस्य दोषवचनात् स्वल्पे प्रदेशे २० दक्षिणेतरदिगभिमुखस्यापि भोजनमनुजानाति । अन्यथा उदमुखानां विधानात् कुतो दक्षिणस्याः प्राप्तिः । प्राकृपित्रादेस्तु न निषेधः। न हि तत्र वेष्टनव्यवहारो लोके । उपानही चर्ममय्यौ पादत्राण । अन्ये तु चर्मपादुके उपानहाविति व्याचक्षते । रक्षांसि भुञ्जते न पितर इति निन्दा ॥ २३८ ॥ चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ॥ रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ॥ २३९ ॥ १ रामचन्द्रकृतटीकायां तद्यथा-चूडाकारः केशैर्वेष्टितशिरा भवती। २फ-न हि तत्र वेष्टनव्यवहारो लोके। ३ फ-अतः । ४ फ-विधाने । ५ र-घुक स्रुवादेनु न विषेधः । ६ र-विषादि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy