SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। २७९ भोजनमत्र पितृभ्यो हितं पिण्डनिर्वपणं तु दर्भेषु पितॄणां कर्तव्यमेतत्त इति विरोधात् । यदि हि पात्रस्थानीया दर्भास्तदा जीवतः पितुः स्वाम्ये दानोत्पत्तौ अल्पिकां मात्रामाशयेदिति न युज्यते । जीवतो हि स्वमिच्छाविनियोज्यम् । न च तस्मिन्पिण्डेऽञ्जनादि दानमुपपद्यते अर्धजरतीयप्रसङ्गात् । न ह्यत्राञ्जनादिसंस्कृतेन पितुः किंचित्प्रयोजनमस्ति तस्मादृष्टार्थमञ्जनादिदानम् । अञ्जनादिरहितं तु कदाचिदात्मनः पितुः परस्य वा ५ भोजनयोग्यं भवतीत्येवमर्धनरतीयम् । तस्मादस्मिन्पक्षे पिण्डनिर्वपणं द्वयोः पितामहप्रपितामहयोः । गृह्यकारास्तु स्मरन्ति “जीवपितृकस्य न पिण्डपितृयज्ञो न श्राद्धम्" । किंतर्हि " अनारम्भ एव तस्य कर्मणो होमान्तता वा " ॥ २२० ॥ पिता यस्य निवृत्तः स्याज्जीवेचापि पितामहः ॥ पितुः स नाम सङ्कीय कीर्तयेत्मपितामहम् ॥ २२१ ॥ १० पितुर्नामसंकीर्तनेन तदीयावाहनपिण्डदानब्राह्मणभोजनानि लक्ष्यन्ते । कीर्तयेत्यपितामहम् । जीवते पितामहाय न दद्यात् । किंतर्हि ततः पूर्वाभ्यां पितुःपितृभ्यो निपृणीयादिति स्मरन्ति ॥ २२१ ॥ पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः॥ कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ २२२ ॥ यथा जीवत्पिता भोज्यते तद्वत्पितामहोऽपि अनुज्ञात्वाऽपि मातामहम् प्रार्थ्य समाचरेत्स्वयम् । परतो द्वयोर्दद्यात् । प्रपितामहाय एकस्मा एव वा । एष्वकामं स्वयमित्यनयोरर्थः ॥ २२२॥ तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ॥ तत्पिण्डाग्रं प्रयच्छेत्तु स्वधैषामस्त्विति ब्रुवन् ॥ २२३ ॥ २० यदुक्तं पिण्डेभ्यः स्वस्पिको मात्रामाशयेदिति तस्यायं कालविधिर्देशविधिश्च । अग्रदेशापिण्डस्य मात्रा आदातव्या । दर्भास्तिलोदकं च दत्वा तदनन्तरं पिण्डभागं प्रयच्छेत्स्वधैषामस्त्विति ब्रुवन् एषामिति सर्वनाम्ना विशेषनामानि गृह्यन्ते । एवं संबन्धः क्रियते । येषां यानि नामानि तान्युच्चार्य स्वधाऽस्त्विति ब्रूयात् । अतः स्वधाशब्दयोगे चतुर्थ्या निर्देशः कर्तव्यः । स्वधा देवदत्तायास्तु स्वधा यज्ञदत्तायास्त्विति । एवंव्याख्याने २५ शास्त्रान्तरविरोधो न भवति ॥ २२३ ॥ पाणिभ्यां तूपसंगृह्य स्वयमन्त्रस्य वर्द्धितम् ॥ विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥ २२४ ॥ १फ-अनुज्ञा पितामहात्प्राप्य समाचरेत् । २ फ-एवं च संबन्धम् । ३ फ-व्याख्यायमाने । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy