SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७८ मेधातिथिभाष्यसमलंकृता। [तृतीयः तु " चरोः प्राणभक्षं भक्षयेत् ॥ इत्युक्तम् । यथान्युप्तान् येर्ने क्रमेण निरुतान् पित्रे पितामहाय प्रपिताहायेति । समाहित इति श्लोकपूरणम् ॥ २१८ ॥ पिण्डेभ्यस्त्वल्पिको मात्रां समादायानुपूर्वशः । तानेव विमानासीनान्विधिवत् पूर्वमाशयेत् ॥ २१९ ॥ अत्यन्तापिका मात्रा अवयवो भागस्तमेव यो ब्राह्मणोऽयं पितरमुद्दिश्य उपवेशितः तदीयात्पिण्डात् किंचिन्मानं स एवाशयितव्यः । अनुपूर्वश इत्युक्तार्थ इह तच्छब्दात्प्रकृतपरामर्शकादग्न्यभाव इत्यत्र न प्रकृतवचनैरेवापूर्वमन्यस्माददनीयात् ॥२१९॥ धिंयमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।। विप्रवद्वाऽपि तं श्राद्धं स्वकं पितरमाशयेत् ॥ २२० ॥ उक्तं “पितृभ्यः पिण्डान्निर्वपेत् ” इति । क एते पितरो नाम अनेकार्थो हि पितृशब्दो जनयितरि वर्तते । जनकः पितेति संबन्धिशब्दो दृश्यते । पूर्वप्रमीताः पित्रादयोऽन्ये च संबन्धिनः प्रेताः पितर उच्यन्ते । तथा च "नमो वः पितरः" इत्यादिमन्त्रा बहुवचनान्ताः समर्था निगदा भवन्ति ।। अत एव स्त्रीश्राद्धे नोह्यन्ते । नमस्ते मातर्नमस्ते पितामही इत्यादि न क्रियते। अत एकोद्दिष्टे संख्योहः क्रियते न प्रातिपदिकोहः। । तथा च सूत्रकारः “ एकत्रन्मन्त्रानूहेत " इत्यादि । 'नमस्ते पितरि'त्येवमूहः क्रियते । यो भ्रातुः पितामहादेवा एकोद्दिष्टं करोति स चैवमूहति । नमस्ते पितामह नमस्ते पितृव्येत्यादि। पितृव्यादीनामनपत्यानां श्राद्धं विहितम् । यो यत आददीत स तस्मै दद्यादिति देवताविशेषवचनोऽप्यस्ति पितृशब्दः कूटस्थनित्येऽर्थे वर्तते । निरुक्तकारा हि दैवते मध्यस्थान् पितॄन् समामनंति "मरुतः रुद्राक्षभृतः पितर" इति । एवमनेकार्थे पितृशब्दे विशेषाव२० धारणार्थमाह । ध्रियमाणे जीवति पितरि सति पूर्वेषां पितामहप्रपितामहतत्पितॄणां निर्वपेत्रयाणां बहुवचन निर्देशात् । तथा च गृह्ये “ येभ्यः पिता दद्यात्तेभ्यः पुत्रो दद्यापितापुत्रौ चेदाहिताग्नी स्यातामिति "। ____ ननु च न चतुर्थे पिण्डो गच्छतीत्याहुः । सत्यम् । नैवात्र चतुर्थः पिण्डों दीयते । पक्षातन्रमाह । विप्रवद्वा यथाब्राह्मणनिमन्त्रणापूर्वकं ब्रह्मचारिणो नियमवंतश्च २५ पूज्यन्ते तथैव जीवत्पितृकेण पिता भोजनीयः । श्राद्धं श्राद्धार्थमन्नं श्राद्धम् । अत्र च पितृत्वमेव भोज्यत्वे कारणं न जातिगुणावपेक्ष्यौ । एवं ह्याहुः पितृप्रीत्यर्थ श्राद्धं तत्र मृतस्य प्रीतौ कर्तव्यायां को जीवति पितरि परिभवो येनासौ न भोज्येत् । स्वकमित्यनुवादः संबन्धिशब्दत्वादेव सिद्धः। १ फ-नियनक्रमेण । २ फ-श्राद्ध। ३ फ-नित्यार्थे । ४ र-मरुनरुद्राविभयऽपितर इति। ५ फ-परिभावो। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy