________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
२७५
वेक्षणे पत्नीकर्तृके भविष्यत इति शक्यमवकल्पयितुं नित्यवदाम्नानात् । तत्रौपसदोऽग्निरित्येष विधिोतव्यः प्राप्नोति ।
ननु च न पितृमरणमेव दायकालः । एवं हि पठ्यते । “ सपिण्डीकरणं कृत्वा विभनेरन् ततः सुताः" इति विभागस्यायं कालो न दायस्य विभागेऽपि नायं नियमो यतो धर्मात्पृथक् क्रियेति पठ्यते । तस्याश्च धर्मत्वं विभक्तानां पृथक् पृथक् श्राद्धकरणेनाति- १ थ्यादिपूजया च । ततश्च " नव श्राद्धं सह दद्युः " इत्यादीनि वाक्यानि समाप्तविद्या. विषयाणि । ईषद्विद्यो रागोद्रेकात्स्वदारनियम मातिक्रमिषमिति कृतविवाहः प्रक्रान्तवेदार्थप्रवणस्तस्य संवत्सरमात्रेण विद्यासमाप्ताविदमुच्यते “सपिण्डीकरणं कृत्वा विभनेरनिति"। तदा मृतभार्यस्य पुनरांश्चिकीर्षत आ दारप्राप्तेर्भवत्यग्नेरभावः। सर्वथा पत्न्या सह यष्टव्यमित्यस्तित्ववचने सति नाकृतविवाहस्यामिपरिग्रहः । ____ एवं स्थितेऽग्नेरभावे आहुती ब्राह्मणस्य हस्ते प्रक्षिपेत् । कस्य ब्राह्मणस्य । य एव निमन्त्रितास्तेषामन्यतमस्य दैव उपवेशितस्यान्यस्य वा निमन्त्रितस्यार्थवादो 'यो ह्यग्निरिति' मन्त्रदर्शितः संमतश्चेदर्थविद्भिः ॥ २१२ ॥
___अक्रोधनान्सुप्रसादान्वदन्त्येतान् पुरातनान् ॥ ____लोकस्याप्यायने युक्तान् श्राद्ध देवान् द्विजोत्तमान् ॥ २१३ ॥ १५
अयमर्थवाद एव । ब्राह्मणानां देवतारूपत्वं संपादयति । अग्निर्देवता । तत्र हुतं तन्मुखेन देवता अनन्ति । ब्राह्मणोऽप्येवंरूपः । तद्धस्तेऽपि क्षिप्तं देवता अनन्त्येव । किंपुनर्देवतानां रूपं येन ब्राह्मणोऽपि देवतारूप उच्यते । अत आह । अक्रोधनानिति वेदं ब्रुवते तदर्थ दर्शयति । य एवंस्वभावा ब्राह्मणास्तेषां हस्ते आज्याहुती प्रक्षेप्तव्ये । अन्ये त्वाहुः । पूर्वत्राक्रोधना इत्यादिना पितृनुद्दिश्य निमन्त्रितानां स्तुत्यानामक्रोधनादि- २० धर्मो विहितः। अनेन देवनिमन्त्रितानामिति विशेषः । तथा चाह । श्राद्धे देवानिति । पुरातनमुनय एवं वदन्ति । द्वितीयान्तो वा पठितव्यः । पुरातनानेतान्देवान्त्साध्यदेवानस्मि
कल्पे समुत्पन्नान् लोकस्याप्यायने युक्तान् एवं श्राद्धं भुञ्जते । तत्र नैवं मन्तव्यम् दृष्टसुखार्थिनो लोभात्स्वार्थे प्रवर्तन्तेऽतश्च किमित्येषां पूना क्रियते । यत आप्याययन्ति लोकं पृथिवीमन्तरिक्षं दिवं चातो नैषामवज्ञा कर्तव्या ।। २१३ ॥
अपसव्यमग्नौ कृत्वा सर्वमात्परिक्रमम् ॥
अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ २१४ ॥ अग्नौ यत्कर्तव्यं ' अग्नये स्वधा नम' इति आहुतिप्रक्षेपलक्षणं कार्य तदपसव्यम् ।
१ ड-क्रियतेति; फ-क्रियेते । २ ड-ख-नच । ३ फ-ईषद्विद्यो रागोद्रेकात्स्वदारनियम मातिक्रमिषमिति । ४ फ-श्राद्धदेवान् । ५ फ-ते आज्याहुती । ६ क-ड-स्वार्थ । ५ फ-सर्वमावृत्य विक्रमम् ।
For Private And Personal Use Only