________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७३
अध्यायः]
मनुस्मृतिः। इदं तु दैवपूर्वग्रहणं प्राग्मोननप्रवृत्तेः पदार्थानां तदादिनियमार्थम् । प्रवृत्तभोजनानां तु पानव्यञ्जनादिषु न नियम इत्येवमर्थमाहुः । अन्यथा कोऽर्थः पुनरभिधाने स्यात् । अजुगुप्सितान् अनिन्दितान् विप्रान् । अनुवादोऽयं तादृशानामेव विधानम् । अथवा सत्यपि भूतप्रत्ययनिर्देशे प्रकृत्यर्थकर्तव्यतानिषेध एवायम् । उपरिष्टान्न जुगुप्सेत न निन्देतेत्युक्तं भवति । प्रत्ययार्थमात्रत्यागो वरं न सर्वपदार्थत्याग इति मन्यन्ते । अनुवादे हि कृस्नमेव ५ पदमनर्थकम् ॥ २०९॥
तेषामुदकमानीय सपवित्रांस्तिलानपि ॥
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ २१ ॥ अनुलिप्तेषु स्रग्विषु सुरभिधूपाञ्जिघ्रत्सु अर्बोदकमुपनेतव्यम् । तेनैव सहपवित्रांस्तिलानपि । पवित्रशब्दो दर्भेषु वर्तते । तेषां ब्राह्मणानामुदकमानीय दत्वा तैरनुज्ञातोऽग्नौ १० होमं कुर्यात् । ब्राह्मणैरनुज्ञातः कुर्यादितिसंबन्धः । सह सर्वे युगपदनुज्ञां दद्युः । अनुज्ञापनवाक्यमपि सामर्थ्यप्राप्तम् । तेन हि ते प्रार्थिता अनुनानीरन् । ततश्चाग्नौ करवाणि करिष्ये इत्येवमादीनि प्रश्नवाक्यानि लभ्यन्ते । अनुज्ञावाक्यमपि सामर्थ्यात्प्राप्तम् । सर्व चैतत्साधुभिः शब्दैः कर्तव्यम् । प्रदर्शितं चैतत् गृह्यकारैः " अग्नौ करवाणि करिष्य इति चानुज्ञापयेदोंकुर्वित्येवं ब्रूयुः " ॥ २१ ॥
अग्नेः सोमयमाभ्यां च कृत्वाऽऽप्यायनमादितः ॥
हविर्दानेन विधिवत्पश्चात्सतर्पयेत्पितॄन् ॥ २११ ॥ यदन्नौकर्तव्यं तदुच्यते । अग्नेः चतुर्थ्यर्थे षष्ठी । अग्निरेका देवता । सोमयमाभ्यामिति द्वन्द्वस्य देवतात्वं अग्नीषोमवत् । अनयोर्दैवतयोरादित आप्यायनं हविर्दानेन कृत्वा पश्चात्सन्तर्पयेत्पितॄन् पिण्डनिर्वपणं ब्राह्मणभोजनं च कुर्यादित्यर्थः । गृह्ये २० त्वन्या देवताः समानाताः। येषां गृह्यं नास्ति तेषामिदं देवतावचनम् ।आप्यायनं पोषणम्। हविषा देवताः पुष्यन्तीत्यर्थवादः ॥ २११ ॥
अग्न्यभावे तु विभस्य पाणावेवोपपादयेत् ॥
यो ह्याग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ २१२ ॥ स्मार्तस्य वैवाहिकस्य दायादेवी अग्नेरभावे विधिरयमुच्यते । लौकिकस्य तु पितृयज्ञ- २५ निषेधात् भावाभावावेचिन्त्यौ "न पैतृयज्ञिको होमो लौकिकेऽनाविति वक्ष्यति(२८२ श्लो.)। कथं पुनस्तस्याग्नेरभावः । प्रोषितस्याग्निना विना द्रव्यब्राह्मणदेशसंपत्तौ च श्राद्धकाल
१र-न हि तेऽप्रार्थिता...। २ फ-देवता । ३ र-अर्थः । ४ क-ख-ख-अग्न्याभावे । ५ ख-भावाभावविधिचिन्त्यौ । । फ-पैतृयज्ञियो ।
For Private And Personal Use Only