SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ मेधातिथिमाष्यसमलंकृता । [तृतीयः दयेत्ततो व्याधिरस्य जनितः स्यात् ॥ तस्मादुपक्रमसमापने एव मोजने देवादिना ॥ २०५॥ शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ २०६ ॥ शुचिर्भस्मास्थिकपालकाद्यनुपहतः । विविक्तो विस्तीर्णो बहुभिर्जनैरनाकीर्णः । दक्षिणाप्रवणो दक्षिणस्यां दिश्यवनतस्तादृशं देशं यत्नेन संपादयेत् । स्वभावतश्चेत्तादृशो न लभ्यते तथा कर्तव्यं यथा स्वव्यापारेण संपाद्यते । तं च गोशकृतोपलेपयेत् । मृदादयो निवर्तन्ते । गोमयेनोपलेपनियमात् ॥ २० ॥ अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ॥ विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २०७॥ अवकाशो देशः । चौक्षाः स्वभावशुचयो मनःप्रसादजनका अरण्यादयः । जलतीराणि सरित्समीपपुलिनादीनि । विविक्तेषु विजनेषु तीर्थेषु च । विध्यन्तरमिदम् । अतश्च गोमयोपलेपननियमो नास्ति । उपपादयेदिति वचनात् । यत्र संपाद्यं शुचित्वं तत्रासौ नियमः । स्वभावतःशुचिषु दृष्टमद्भिनिर्णिक्तमित्येतावतैव योग्यता । एतेषु देशेषु दत्तेन १५ कृतेन श्राद्धे नित्यतुष्टाः पितरो भवन्तीति ॥ २० ॥ आसनषूपकृप्तेषु बहिष्मत्सु पृथक् पृथक् ॥ उपस्पृष्टोदकान्सम्यग्विप्रास्तानुपवेशयेत् ॥ २०८॥ उपकृप्तेषु कल्पितेषु विन्यस्तेषु पृथक्पृथक् विभागेन । नैकमासनं दीर्घधौतफलकादि सर्वेभ्यो दद्यात् । परस्परं यथा न स्पृशन्ति तथोपवेशनीया इति पृथग्रहणम् । २० बर्हिष्मत्सुदर्भविष्टरास्तीर्णेषु उपस्पृष्टोदकान्स्नातान् कृताचमनविधींश्च तान् पूर्वनिमन्त्रितानुपवेशयेत् ॥ २०८॥ उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् ॥ गन्धमाल्यैः सुरभिभिरर्चयेद्देवपूर्वकम् ॥ २०९ ॥ उपवेशनानन्तरं गन्धमाल्यैरर्चयेत् । गन्धान कुङ्कुमकर्पूरादीन् दद्यात् । २५ माल्यानि कुसुमलनः । सुरभिग्रहणं माल्यविशेषणम् । निर्गन्धानि पुष्पाणि न दद्यात् । गन्धेष्वपि युक्तं विशेषणं सन्ति गन्धा असुरभयस्तन्निवृत्त्यर्थम् । अथवा सुरभिभिधूपैः । स्वतन्त्रं सुरभिग्रहणम् । दैवेभ्यो ब्राह्मणेभ्यः पूर्व दत्वा ततः पित्र्येभ्यो दातव्यम् । १फ-तस्मादुपक्रमः समानो देवादि। २ फ-नदीतीरेषु। ३ फ-नाति तुष्टाः। ४ र-उपसृष्टोदशत् । ५फ-विभागेनैवमासनं । ६ फ-पितृदेभ्यो; ल-पितृभ्यो। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy